Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 204
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
भूय एव महाबाहो श्रृणु मे परमं वचः ।
आदर्शो राजतेऽत्यर्थं पौनःपुन्येन मार्जितः
2
Keep
अर्थो वेदनसंकेतः शब्दो जलरवोपमः ।
दृश्यमेतच्चिदाभानं स्वप्नवत्क्वाभवज्जगत्
3
Keep
जाग्रद्वै स्वप्नसंदृष्टः स्मरणात्म स्थितं पुरः ।
संविद्वेदनमात्रं सत्तदन्याकारवत्ततम्
4
Keep
यथाच्छं संविदाकाशं मयि स्वप्नपुरात्मकम् ।
सरूपमपि नीरूपं तथेदं भुवनत्रयम्
5
Keep
संपन्नेयं कथं भूमिः संपन्ना गिरयः कथम् ।
कथं संपन्नमम्भश्च संपन्ना उपलाः कथम्
6
Keep
कथं च तेजः संपन्नं संपन्ना च कथं क्रिया ।
कथं च कालः संपन्नः संपन्नः पवनः कथम्
7
Keep
कथं च शून्यं संपन्नं संपन्नं चिन्नभः कथम् ।
इति ज्ञातं मया भूयो बोधाय वद मे प्रभो
8
Keep
ब्रूहि राघव तत्त्वेन स्वप्नदृष्टमहापुरे ।
संपन्ना भूः कथमिव संपन्नं कथमम्बरम्
9
Keep
कथं वारि च संपन्नं संपन्ना उपलाः कथम् ।
कथं च तेजः संपन्नं संपन्नाश्च कथं दिशः
10
Keep
संपन्नश्च कथं कालः संपन्ना च कथं क्रिया ।
कथमेतन्निमित्तादि सर्वं संपन्नमुच्यताम्
11
Keep
केनेदं निर्मितं दग्धमानीतं रचितं चितम् ।
उत्पादितं प्रकटितं किमाचारं किमात्मकम्
12
Keep
आत्मास्य केवलं व्योम न सद्भूम्यचलादिकम् ।
जगतः स्वप्नरूपस्य निराकारो निरास्पदः
13
Keep
आत्मैव व्योमरूपोऽस्य निराधारो निराकृतिः ।
विनाकृतेर्वा व्योम्नोऽस्य किमाधारेण कारणम्
14
Keep
न किंचिदेतत्संपन्नं सद्यथैतन्न संविदः ।
एतच्चित्कचनं नाम मन एव तथा स्थितम्
15
Keep
दिक्कालाद्यत्र चिद्भानं चिद्भानमचलादिकम् ।
चिज्जलादि तथा बोधाच्चित्खं वाय्वादि तद्विदः
15-2
Keep
संविदेव किल व्योम तिष्ठति व्योमतामिता ।
दृषत्तयास्ते काठिन्याद्द्रवाज्जलमिव स्थिता
17
Keep
वस्तुतस्तु न भूम्यादि किंचित्तन्न च दृश्यता ।
चिदाकाशमनन्तं तत्सर्वमेकं तदात्मकम्
18
Keep
द्रवत्वादम्बु हृद्याब्धेर्नानावृत्तितया यथा ।
अनानैव भवेन्नाना चिद्व्योमात्मनि वै तथा
19
Keep
काठिन्यवेदनादुर्वी गिरितामागतेव चित् ।
शून्यतावेदनाच्छून्यं वेत्ति व्योमेव चिद्वपुः
20
Keep
द्रवत्ववेदनाद्वेत्ति वारि स्पन्दतयानिलम् ।
औष्ण्यसंवित्ततो वह्निमत्यजन्ती निजं वपुः
21
Keep
एवंस्वभाव एवायं चिद्धातुर्गगनात्मकः ।
यदेवं नाम कचति निष्कारणगुणक्रमम्
22
Keep
न चैतद्व्यतिरेकेण किंचिन्नापीह विद्यते ।
अन्यच्छून्यत्ववारिभ्यामृते खार्णवयोरिव
23
Keep
न तु चिद्गगनादन्यन्न संभवति किंचन ।
इदं त्वमहमित्यादि तस्मादाशान्तमास्यताम्
24
Keep
त्वं यथास्मिन् गृहे कुर्वन्नग्निशैलादिकां विदम् ।
तदेव पश्यस्यवपुरेवं चिद्गगनं तथा
25
Keep
चिद्व्योम भाति देहाभं सर्गादौ न तु देहकः ।
अकारणत्वादसतश्चिदुदेतीति चिन्त्यताम्
26
Keep
मनोबुद्धिरहंकारो भूतानि गिरयो दिशः ।
शिलाजठरवन्मौनमयं सर्वे यथास्थितम्
27
Keep
एवं न किंचिदुत्पन्नं नष्टं न च न किंचन ।
यथास्थितं जगद्रूपं चिद्ब्रह्मात्मनि तिष्ठति
28
Keep
चितौ यत्कचनं नाम स्वरूपप्रविजृम्भणम् ।
तदेतज्जगदित्युक्तं द्रव एव यथा जलम्
29
Keep
इदं जगद्भानमभानमेव
चिद्व्योम शून्यं परमार्थ एव ।
यथ'र्थसंदर्शनबुद्धबुद्धे-
रबुद्धबुद्धेस्तु यथा तथास्तु
Previous
←
Sarga 203
Next
Sarga 205
→