Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 206
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
यदकारणकं भाति भानं तन्नैव किंचन ।
तत्तथा परमार्थेन परमार्थः स्थितोऽनघ
2
Keep
अत्रेमं केनचित्पृष्टोऽयमहं तं महामते ।
सम्यग्बोधस्य पुष्ट्यर्थं महाप्रश्नं परं श्रृणु
3
Keep
अस्त्यब्धिभ्यामुभयतो व्याप्तं ख्यातं जगत्त्रये ।
कुशद्वीपमिति द्वीपं भूमौ वलयवत्स्थितम्
4
Keep
तत्रास्तीलावती नाम हैमी पूर्वोत्तरे पुरी ।
दीप्तिज्वालामयस्तम्भप्रोतावनिनभस्तला
5
Keep
पूर्वे तस्यामभूद्राजा प्रज्ञप्तिरिति विश्रुतः ।
अनुरक्तजगद्भूतः शक्रः स्वर्ग इवापरः
6
Keep
केनचित्कारणेनाहं कदाचित्तस्य भूपतेः ।
प्राप्तः समीपं नभसः प्रलयार्क इव च्युतः
7
Keep
पुष्पार्घ्याचमनीयैर्मां पूजयित्वोपविश्य सः ।
मध्ये कथायां कस्यांचिदपृच्छत्प्रणयादिदम्
8
Keep
भगवन्सर्वसंहारे जाते शून्यतते स्थिते ।
अवाच्ये परमे व्योम्नि सर्वकारणसंक्षये
9
Keep
सर्गारम्भस्य भूयः स्याद्वद किं मूलकारणम् ।
कानि वा सहकारीणि कारणानि कुतः कथम्
10
Keep
किं जगत्किं च सर्गादि काश्चिन्नित्यं तमोधराः ।
व्योमसंस्थार्णवाः काश्चित्काश्चित्कृमिकुलाकुलाः
11
Keep
काश्चिदाकाशकोशस्थाः काश्चिच्चोपलकोशगाः ।
किंच वा भूतभूतादि कुतो बुद्ध्यादयः कथम्
12
Keep
कः कर्ता कोऽथ वा द्रष्टा काधाराधेयता कथम् ।
न कदाचिन्महानाशो जगतामिति निश्चयः
13
Keep
समस्तवेदशास्त्रार्थाविरोधाय समर्थितः ।
यथा संवेदनं नाम तथा नामानुभूतयः
14
Keep
यतस्ततो वेदनं स्यात्किमनाशमसन्मयम् ।
अन्यच्च जम्बूद्वीपादौ देशेऽद्य मुनिनायक
15
Keep
मृतानामग्निदग्धानामिह वा देहनाशिनाम् ।
नरकस्वर्गभोगाय विदेहे देहकारणम्
16
Keep
किं तत्स्यात्सहकारीणि कारणान्यथ कानि वा ।
धर्माधर्मावमूर्तौ द्वौ तस्यामूर्तस्य मूर्तता
17
Keep
निर्द्रव्यं कुरुते द्रव्यैर्युक्तिरित्यसमञ्जसा ।
मातापित्राद्यभावो हि बीजं किं तत्र कारणम्
18
Keep
अन्ये वा हेतवः के स्युः कथं द्रव्यादिसंभवः ।
परलोकोऽस्य नास्तीति यथासंवेदनं स्थितेः
19
Keep
समस्तलोकवेदादिविरोधाच्चासमञ्जसम् ।
अनिच्छितेहितैर्दूरदेशान्तरगतैः फलम्
20
Keep
प्रजा प्राप्नोत्यसंबन्धैरमूर्तैरत्र कः क्रमः ।
स्तम्भो वरेण सौवर्णो विना हेमगमागमैः
21
Keep
क्षणात्संपद्यते तत्र संपत्तिः कथमुच्यताम् ।
विधीनां प्रतिषेधानां निर्निमित्तं विवल्गताम्
22
Keep
रूढानामप्यरूढानां किं प्रयोजनमुच्यताम् ।
असदासीज्जगत्पूर्वं सत्संपन्नमनन्तरम्
23
Keep
इति श्रुतेः कथं ब्रह्मन्कथ्यतां संगतार्थता ।
अयं भवेत्कथं ब्रह्मा भवेच्चेत्तन्महामुने
24
Keep
एवंप्रभावान्नभसः किं सर्वस्मान्न जायते ।
ओषधीनामथार्थानां सर्वेषां वा स्थितिं गताः
25
Keep
कथं स्वभावाः कथय यथाबोधं मुनीश्वर ।
एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा
26
Keep
मृत्वार्थितं प्रयागादौ क्षेत्रे तत्कथमुच्यताम् ।
खे स्यामक्षयपूर्णेन्दुरिति ध्यायिचितैः फलैः
27
Keep
तुल्यकालमनुप्राप्तैः सहस्रेन्दु न किं नभः ।
अन्यच्च ध्यायिनां लक्षैर्ध्यातैका स्त्री यथाक्रमम्
28
Keep
जायात्वेन समं कालं लब्धं ध्यानफलं च तैः ।
साध्व्यसाध्वी गृहे भर्तुः संस्थिता तपसा परा
29
Keep
तेषां च जाया संपन्ना कथमेतन्महामुने ।
गृहानिर्गच्छमाकल्पं नृपः स द्वीपसप्तके
30
Keep
वरत्वं वरशापाभ्यामिति अन्तः क्व तिष्ठति ।
दानधर्मादितपसामौर्ध्वदेहिककर्मणाम्
31
Keep
इहस्थानाममूर्तानां मूर्तं प्रीत्यास्ति सत्फलम् ।
व्यवहर्ता न मूर्तोऽत्र विद्यते लोकयोर्द्वयोः
32
Keep
देशान्तरे भृशं जीवो भृशं कालान्तरेऽपि वा ।
फलं संभवतीयत्तद्विनानुभवनं मुने
33
Keep
असमञ्जसमेवाति कथं स्यात्सुसमञ्जसम् ।
इत्यादिसंशयगणं गिरा शीतावदातया ।
छिन्धि मेऽभ्युदितं भासा सान्ध्यमान्ध्यमिवोडुपः
34
Keep
परमवस्तुनि संशयनाशना-
दुभयलोकहितं भवति स्फुटम् ।
तदिह मे कुरु साधुसमागम-
स्तनुफलो भवतीह न कस्यचित्
Previous
←
Sarga 205
Next
Sarga 207
→