Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 209
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा ।
मृत्वार्थितं प्रयागादौ क्षेत्रे यत्तदिदं श्रृणु
2
Keep
क्षेत्राणामर्थधर्माणां सर्वेषां प्रति तं फलम् ।
ब्रह्मणा कल्पितं सर्गे स्वके संकल्पपत्तने
3
Keep
यत्र पुण्यं यदर्थं च क्षेत्रं ताभ्यां तथा कृतम् ।
यदि तद्विनियोज्यस्य तस्योन्नमति निष्कृतात्
4
Keep
तत्तस्मान्महतः पापाद्भागमेनोखिलं च वा ।
चितिशक्त्यात्म तत्पुण्यं परिभ्राम्योपशाम्यति
5
Keep
विनेयपापमल्पं चेत्क्षेत्रधर्मोऽधिकस्ततः ।
तत्पापं नाशयित्वा तच्छब्द एव विवल्गति
6
Keep
क्षेत्रधर्मेण तेनास्य विनेयस्य महीपते ।
द्वे शरीरे विदौ सम्यक्कचतः प्रतिभात्मिके
7
Keep
इत्येवमादिपापानां पुण्यानां च फलं महत् ।
ब्रह्मसंकल्पकचितं यथा यद्यत्तथैव तत्
8
Keep
ब्रह्मोच्यतेऽसौ चिद्धातुः सोऽब्जजाद्यहमादि च ।
स यथास्ते तथा तत्तत्तस्य संकल्पनं जगत्
9
Keep
प्रतिभैव विनेयस्य क्षेत्रपुण्येन तादृशी ।
तथैवोदेति सा धातुर्विपरीतवतो यथा
10
Keep
एकात्मनाहमद्यैष मृतोऽमी मम बन्धवः ।
रुदन्तीमे परं लोकं प्राप्तोऽयमहमेककः
11
Keep
बन्धूनामपि तत्रैव तदैवास्य तथैव च ।
प्रतिभा तादृशैवेति धातुक्षोभवतामिव
12
Keep
अत्युग्रैः पुण्यपापैः स्वैर्वा महात्मभिरीक्षिते ।
लक्ष्याण्यप्यन्यथा सन्ति नृणां चित्कल्पनावशात्
13
Keep
अचेतनं शवीभूतं तेऽपि पश्यन्ति तं मृतम् ।
रुदन्ति तं च दहने क्षिपन्ति सह बान्धवैः
14
Keep
विनेयः स यथान्येन संविद्रूपेण देहिना- ।
ऽजरामरणमात्मानं वेत्ति स्थितमदुःखितम्
15
Keep
यथास्थितेन देहेन वेत्त्यसौ जीवितस्थितम् ।
मृतिं त्वदृश्येनान्येन क्षेत्रपुण्यविदेरितः
16
Keep
आविला संविदा संविच्छून्यया वेद्यते क्षणात् ।
न हि सन्नद्धगात्रस्य क्लेशोऽसन्नद्धमेदने
17
Keep
पश्यन्ति बन्धवोऽप्येनं तथैवामरतां गतम् ।
द्वयमित्येष लभते जीवितं मरणं समम्
18
Keep
इदमप्रतिघारम्भं भ्रान्तिमात्रं जगत्त्रयम् ।
न संभवति को नाम भ्रान्तौ भ्रान्तिविपर्ययः
19
Keep
संकल्पस्वप्नपुरयोर्या भ्रान्तिरनुभूयते ।
ततोऽधिकोऽयं न न्यूनाज्जाग्रत्स्वप्नेऽनुभूयते
20
Keep
राजोवाच ।
धर्माधर्मौ कथं ब्रह्मन्कारणं देहसंविदः ।
तस्यामूर्तौ कथं चैको द्विशरीरत्वमृच्छति
21
Keep
संकल्पनगरे ब्राह्मे जगत्यस्मिन्महामते ।
किं नाम नो संभवति सत्यं वाप्यसमञ्जसम्
22
Keep
यथैव संकल्पपुरे यन्न संभवतीह हि ।
तन्नास्त्येव तदेतस्मिन्किं वाऽस्तु ब्रह्मकल्पने
23
Keep
स्वप्नसंकल्पपुरयोरेको गच्छति लक्षताम् ।
तथा चैकैव चित्स्वप्ने सेनात्वमुपगच्छति
24
Keep
सहस्राण्येकतां यान्ति तथा सैव सुषुप्तकम् ।
अन्यथा स्वप्नसंकल्पसेनानुभवसंस्मृतौ
25
Keep
संकल्पस्वप्नपुरयोरिति को नानुभूतवान् ।
संविदाकाशमात्रेऽस्मिञ्जगत्यनुभवात्मनि
26
Keep
तस्मादस्मिंश्चिदाकाशसंकल्पे जगदात्मनि ।
न संभवति किं नाम तत्संभवति वापि किम्
27
Keep
एवमेवमियं भ्रान्तिर्भाति भास्वन्नभोमयम् ।
नेह किंचन सन्नासन्न वाऽऽसदिह किंचन
28
Keep
यथानुभूयते यद्यत्तत्तथा तत्त्वदर्शिनः ।
प्रबुद्धस्यात्र किं नाम तत्स एवाङ्गतेत्यलम्
29
Keep
इह चेद्विहितो धर्मस्तत्स्वर्गेऽमृतपर्वताः ।
स्थिता इतीह संकल्पे कस्मान्न प्राप्तवान्गिरीन्
30
Keep
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
इतीह संकल्पपुरे सर्वमेवासमञ्जसम्
31
Keep
यदि स्यात्सुस्थिरं किंचिद्वस्तु तद्दृश्यको भवेत् ।
न्याय एषोऽखिलः किंतु संवित्त्वात्स्वस्वकं स्थितः
32
Keep
इत्येष कथितो न्यायः सिद्धास्वनुभवस्ततः ।
यतो जगन्ति संकल्पश्चितो ब्रह्मस्वरूपतः
33
Keep
इव संकल्पनगरे नास्त्येवासंभवो यथा ।
सर्वार्थानां तथा ब्राह्मे संकल्पे नास्त्यसंभवः
34
Keep
यद्यथा कल्पितं तत्र यावत्संकल्पमेव तत् ।
स्वभावेन तथैवास्ति यतस्तत्संनिवेशवत्
35
Keep
ततः संप्रेक्षणमिह संकरो न प्रवर्तते ।
विनान्यच्चित्प्रयत्नेन भवत्यर्थस्तु नान्यथा
36
Keep
आकल्पमजसंकल्पे यथा भातं जगत्स्थितम् ।
पुनरन्येन संकल्परूपेणान्यदुपैष्यति
37
Keep
संकल्पात्म स्वयं भाति कल्पे कल्पे जगत्तथा ।
प्रतिजीवं चितिस्वप्ने स्वप्ने स्वाप्नपुरं यथा
38
Keep
संकल्पपत्तनतनोर्न तदस्ति किंचि-
द्यद्यन्न संभवति तच्च चिदात्मनोऽस्मात् ।
नान्यत्प्रकम्पयितुराद्यपरस्वरूपा-
द्ब्रह्मैव तेन सकलं जगदङ्ग विद्धि
Previous
←
Sarga 208
Next
Sarga 210
→