Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 211
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
इति तत्रोपविश्याहं पूजितस्तेन भूभुजा ।
प्रयोजनं स्वं संपाद्य स्वर्गन्तुं गगनं प्लुतः
2
Keep
अद्यैतद्भवता प्रोक्तं मया मतिमतां वर ।
अनया सुदृशा शान्तमनाः स्वात्मा भविष्यसि
3
Keep
ब्रह्मैव तदिदं सर्वं निर्नामैवामलं नभः ।
किमप्येवाजमाशान्तमादिमध्यान्तवर्जितम्
4
Keep
चिद्भानमात्रमित्युक्तं ब्रह्मेति कलिताभिधम् ।
परात्परमिति प्रोक्तं तत्तु निर्नामकं पदम्
5
Keep
सिद्धसाध्ययमब्रह्मविद्याधरदिवौकसाम् ।
ब्रह्मन्कथय दृश्यन्ते लोका लोकधराः कथम्
6
Keep
सिद्धसाध्ययमब्रह्मविद्याधरदिवौकसाम् ।
अन्येषामपि भूतानामपूर्वाणां महात्मनाम्
7
Keep
प्रतिरात्रं प्रतिदिनं पुरः पश्चादुपर्यधः ।
पश्यस्यालोकयँल्लोकानपश्यंश्च न पश्यसि
8
Keep
एते लोकाः किलैतेषां नाभ्यासः स्थानदूरगाः ।
एते संकल्पलोकाख्या व्याप्तमेभिः किलाखिलम्
9
Keep
यथैते कल्पनालोका अयं लोकस्तथैव नः ।
यथा काल्पनिको वातो लोकालोकास्तथैव ते
10
Keep
संकल्पस्वप्नलोका ये तव भान्ति दिवानिशम् ।
त एव तादृशाश्चान्ये संकल्पेन स्थिरीकृताः
11
Keep
ध्यानेन त्वमपीतांश्चेत्स्थिरतां सुस्थिरात्मना ।
नयस्याशु तदेवैते स्थिरतां यान्त्यविघ्नतः
12
Keep
यथाभिमतविस्तारा यथाभिमतसंपदः ।
संकल्पभाववलितो जनः पश्यति सिद्धवत्
13
Keep
किंतु ते स्थिरतां नीताः सिद्धैः स्वर्यानसंपदा ।
अस्थिरैर्ध्यानविश्रान्तौ तैर्दुःखैस्तदमी कृताः
14
Keep
जगदप्रतिघं सर्वं शान्तचिद्व्योम सर्वदा ।
यथा दृढं संविदितं तथैवाभाति नान्यथा
15
Keep
न भात्येवासंविदितमस्ति नास्ति न चोद्यता ।
शून्यं ह्यप्रतिघं चैतत्पराकाशमरोधकम्
16
Keep
चित्स्वभावतया भातं भारूपमिव दृश्यते ।
अस्मिंश्चिदभिमानश्च विद्यते न स्वभावतः
17
Keep
कार्यकारणभावाच्चेत्कथैवात्र न विद्यते ।
व्योम्नोऽनन्तस्य सिद्धस्य किं कथं किल जायते
18
Keep
यच्च जातमिवाभाति व्योम्नि व्योमैव तत्तथा ।
तत्रैकद्वित्वकलना कीदृशी स्यादरूपिणी
19
Keep
तद्धि यादृशमेवासीत्तादृगेवावतिष्ठते ।
निर्विकारं यथा स्वप्ने व्योमैवाचलवद्भवेत्
20
Keep
संकल्पे चित्तमाकारं यथोदेत्यद्रिलीलया ।
न च सोऽद्रिर्न तद्व्योम तथा ब्रह्म जगत्स्थितिः
21
Keep
काष्ठवन्मौनमास्थाय रटन्तोऽपि महाधियः ।
इह व्यवहरन्त्येते बुधा दारुनरा इव
22
Keep
यथा वारिणि वर्तन्ते तरङ्गावर्तवृत्तयः ।
अनन्याः परिवर्तन्ते तथा ब्रह्मणि सृष्टयः
23
Keep
यथा वायौ परिस्पन्दा यथा व्योमनि शून्यता ।
अनन्याश्चाप्यमूर्ताश्च तथा ब्रह्मणि सृष्टयः
24
Keep
यथा संकल्पनगरं शून्यमेव पुरं स्थितम् ।
साकारमप्यनाकारं ब्रह्मणीदं तथा जगत्
25
Keep
चिरानुभूतमप्यर्थकार्यपीदं जगत्त्रयम् ।
शून्यमेव निराकारं संकल्पनगरं यथा
26
Keep
यदेव चित्तसंकल्पस्तदेव नगरं यथा ।
तदा तथायं ब्रह्माच्छं तदेव जगदुच्यते
27
Keep
चिरं नित्यानुभूतोऽपि जगदर्थो न किंचन ।
विद्यते पुरुषस्येह स्वप्ने स्वमरणं यथा
28
Keep
स्वप्ने पुंसा मृतेनापि स्वदाहो दृश्यते यथा ।
असदेव सदाभासं जगद्दृष्टं परे तथा
29
Keep
जगत्ता चाजगत्ता च परस्यैवामलं वपुः ।
पराभिधानं च परं न च सत्परमार्थतः
30
Keep
इत्थमस्तु यदि वान्यथास्तु वा
मैव भूद्भवतु कोऽत्र संभ्रमः ।
मुञ्च फल्गुनि फले फलग्रहं
बुद्धवानसि कृतं परिश्रमैः
Previous
←
Sarga 210
Next
Sarga 212
→