Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 23
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
विरागवासनापास्तसमस्तभववासनः ।
उत्थाय गच्छ प्रकृतेरस्या मङ्किरिवाङ्कितः
2
Keep
मङ्किर्नामाभवत्पूर्वं ब्राह्मणः संशितव्रतः ।
स कथं श्रृणु निर्वाणमाप्तवान्मद्विबोधितः
3
Keep
अहं कदाचिदाकाशकोशादवनिमागतः ।
भवत्पितामहार्थेन केनाप्युपनिमन्त्रितः
4
Keep
विहरन्भूतलं गच्छंस्त्वत्पितामहपत्तनम् ।
प्राप्तोऽस्मि कामप्यादीर्घामरण्यानीं महातपाम्
5
Keep
पांसुप्रतर्दनहतां प्रकचत्तप्तसैकताम् ।
अदृष्टापारपर्यन्तां क्वचिद्राम किलाङ्किताम्
6
Keep
अक्षुब्धस्वानिलालोकजलभूशान्तिशालिनीम् ।
ततां शून्यां महारम्भां ब्रह्मसत्तामिवामलाम्
7
Keep
अविद्यामिव संमोहमृगतृष्णां गतां भ्रमात् ।
जडतामाततां शून्यां दिङ्मोहमिहिकाकुलाम्
8
Keep
अथ तस्यामरण्यान्यां यावत्प्रविहराम्यहम् ।
तावत्पश्यामि पुरतो वदन्तं पथिकं श्रमात्
9
Keep
अहो नु परिखेदाय प्रौढप्रायातपो रविः ।
परितापाय पापोऽयं दुर्जनेनेव संगमः
10
Keep
सुगलन्तीव मर्माणि स्फुरतीवाग्निरातपे ।
संकुचत्पल्लवापीडास्ताप्यन्ते वनराजयः
11
Keep
तत्तावदेवमग्रस्थं ग्रामकं प्रविशाम्यहम् ।
श्रममत्रापनीयाशु वहाम्यध्वानमाशुगः
12
Keep
इति संचिन्त्य सोऽग्रस्थं किरातग्रामकं यदा ।
प्रवेष्टुमिच्छति तदा मया प्रोक्तमिदं वचः
13
Keep
अपरिज्ञातनीरागमार्ग मित्र शुभाकृते ।
मरुमार्गमहारण्यपान्थ स्वागतमस्तु ते
14
Keep
चिरं मनुष्यदेशेऽस्मिन्निर्जनग्राममध्वनि ।
अधराध्वग विश्रातिं विश्रान्तोपि न लप्स्यसे
15
Keep
ग्रामे विश्रमणं नैव वर्तते पामरास्पदे ।
तृड्वै लवणपानेन भूय एवाभिवर्धते
16
Keep
एते ग्रामैकशरणाः पल्लवाः स्पन्दभीरवः ।
अयथापथसंचारा हरिणा इव जन्तवः
17
Keep
न स्फुरन्ति विचारेषु प्रज्वलन्त्यनुभूतिषु ।
न त्रस्यन्ति दुराचारादश्मयन्त्रमया इव
18
Keep
कामार्थरागसद्वेषपरिनिष्ठितपौरुषाः ।
कर्मण्यापातमधुरे रमन्ते दग्धबुद्धयः
19
Keep
आभिजात्याततोदारा शीतला रसशालिनी ।
नेह विश्वसिति प्रक्षा मेघमाला मराविव
20
Keep
वरमन्धगुहाहित्वं शिलान्तःकीटता वरम् ।
वरं मरौ पङ्गुमृगो न ग्राम्यजनसंगमः
21
Keep
निमेषास्वादमधुराः क्षणान्तरविरागिणः ।
मारणैकान्तनिरता ग्राम्या विषकणा इव
22
Keep
वान्ति भस्मकणाकीर्णा जीर्णाः संशीर्णसद्मसु ।
तृणपर्णवनव्यग्रा ग्राम्याधार्मिकवायवः
23
Keep
एवमुक्तेन तेनाहमिदमुक्तस्ततोऽनघ ।
मद्वाक्येन समाश्वास्य स्नातेनेवामृताम्भसा
24
Keep
भगवन्कोऽसि पूर्णात्मा महात्मा कथमात्मवान् ।
पश्यस्यनाकुलो लोकं ग्रामयात्रामिवाध्वगः
25
Keep
किं त्वया पीतममृतं किं त्वं सम्राड्विराडथ ।
सर्वार्थरिक्तोऽपि चिरं संपूर्ण इव राजसे
26
Keep
शून्योऽसिपरिपूर्णोऽसि घूर्णोऽसीव स्थिरोऽसि च ।
न सर्वमपि सर्वं च न किंचित्किंचिदेव च
27
Keep
उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।
निवृत्तं चोर्जितं तादृग्रूपं किमिति ते मुने
28
Keep
भूसंस्थोऽपि समस्तानां लोकानामुपरीव खे ।
संस्थितोऽसि निरास्थोऽसि घनास्थोऽसीव लक्ष्यसे
29
Keep
प्रसृतं न पदार्थेषु न पदार्थात्मनाऽस्ति वै ।
तवेन्दोरिव शुद्धस्य मनोऽमृतमयं स्थितम्
30
Keep
कलावानकलङ्कोऽन्तःशीतलो भास्वरः समः ।
रसायनभरापूर्णः पूर्णेन्दुरिव राजसे
31
Keep
त्वदिच्छायां तु सदसद्भावं पश्यामि ते चिति ।
संसारमण्डलमिदं स्थितं फलमिवाङ्कुरे
32
Keep
अहं तावदयं विप्र शाण्डिल्यकुलसंभवः ।
मङ्किर्नाम महाभाग तीर्थयात्राप्रसङ्गतः
33
Keep
गत्वा सुदूरमध्वानं दृष्ट्वा तीर्थानि संप्रति ।
चिरकालेन सदनमात्मीयं गन्तुमुद्यतः
34
Keep
न च मे गन्तुमुद्योगो विरक्तमनसो गृहम् ।
दृष्ट्वा तडित्सकाशानि भूतानि भुवनोदरे
35
Keep
भगवन्सत्यमात्मानं कथयेहानुकम्पया ।
गम्भीराणि प्रसन्नानि साधुचेतःसरांसि हि
36
Keep
दर्शनादेव मित्रत्वं कुर्वतां महतां पुरः ।
कमलानीव भूतानि विकसन्त्याश्वसन्ति च
37
Keep
ममेदं च मनो मोहात्संसारभ्रमसंभवम् ।
मन्ये हातुं न समर्थं स त्वं बोधानुकम्पितैः
38
Keep
वसिष्ठोऽस्मि महाबुद्धे मुनिरस्मि नभोगृहः ।
केनाप्यर्थेन राजर्षेरिमं मार्गमुपस्थितः
39
Keep
मागा विषादं पन्थानमागतोऽसि मनीषिणाम् ।
प्रायः प्राप्तोसि संसारसागरस्य परं तटम्
40
Keep
वैराग्यविभवोदारा मतिरुक्तिरपीदृशी ।
आकृतिः शान्तरूपा च न भवत्यमहात्मनः
41
Keep
मणिर्मधुरकाषेण यथैति विमलात्मताम् ।
तथा कषायपाकेन चित्तमेति विवेकिताम्
42
Keep
किं ज्ञातुमिच्छसि कथं संसारं हातुमिच्छसि ।
उपदिष्टमहं मन्ये संपादयति कर्मभिः
43
Keep
विमलवासन उत्तममानसः
परिविविक्तमतिर्जनतेजसा ।
पदमशोकमलं खलु युज्यते
जनितितीर्षुमतेरिदमुच्यते
Previous
←
Sarga 22
Next
Sarga 24
→