Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 32
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
यदा चितिः प्रसरति तदाहंताजगद्भ्रमः ।
असदेवाभ्युदेतीव स्पन्दादपि च वायुता
5
Keep
उदितोऽपि न खेदाय ब्रह्मरूपत्ववेदनात् ।
परमाय त्वनर्थाय जगच्छब्दार्थभावनात्
3
Keep
रूपानुभवमादत्ते चक्षुःप्रसरणाद्यथा ।
चितिः प्रसरणात्तद्वज्जगद्विभ्रममास्थिता
4
Keep
यासौ प्रसरति व्यर्थं चेत्याभावान्न सा सती ।
असत्कथं प्रसरति वन्ध्यापुत्रः क्व नृत्यति
5-2
Keep
अयं त्वनुभवादेव मुधैवानुभवन्स्थितः ।
असदेवाननुभवन्स्वयमर्भकयक्षवत्
6
Keep
अहंभावोऽपि दुःखार्थमहमित्येव वेदनात् ।
अवेदनान्नाहमतः स्वायत्ते बन्धमुक्तते
7
Keep
तद्ध्यानं स समाधिर्वा यदवेदनमासितम् ।
अजडानां जडमिव समं शान्तमनामयम्
8
Keep
द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भविभ्रमैः ।
मा विषीदत दुःखाय विबुधा अबुधा इव
9
Keep
असदाश्रयते दुःखं स्वप्नवद्धनवासनः ।
रूपालोकमनस्कारान्संकल्परचितानिव
10
Keep
दुःखं सदेव नाश्नाति सुप्तवत्तनुवासनः ।
रूपालोकमनस्कारान्संकल्परहितानिव
11
Keep
अत्यन्ततनुतामेत्य वासनैवैति मुक्तताम् ।
देशकालक्रियायोगात्पदार्थे भावनामिव
12
Keep
अत्यन्ततनुतां याता वासनैवैति मुक्तताम् ।
पराणुपरिणामेन खतां खेऽभ्रादिका यथा
13
Keep
अहंभावनया बोधे वासना घनतानवा ।
विपश्चित्संगमाभ्यासात्पाण्डित्यमिव मूढता
14
Keep
नाहमस्तीह मद्युक्त्या निश्चयोऽन्तः शमात्मकः ।
जीवतोऽजीवतश्चास्ति रूढबोध इति स्मृतः
15
Keep
वायौ द्वन्द्वमिवात्रेदं जगदादि च भासते ।
कोऽहं कथमिदं चेति विचारेणैव शाम्यति
16
Keep
नाहमित्येव निर्वाणं किमेतावति मूढता ।
सत्संगमविचाराभ्यामेतदाश्ववगम्यते
17
Keep
क्षीयते तत्त्ववित्सङ्गादहमित्येव बन्धनम् ।
आलोकेनेव तिमिरं दिवसेनेव यामिनी
18
Keep
कोऽहं कथमिदं दृश्यं को जीवः किं च जीवनम् ।
इति तत्त्वज्ञसंयोगाद्यावज्जीवं विचारयेत्
19
Keep
जीवितं भुवनं भाति ततोऽहमिति नश्यति ।
तत्त्वमेकेन तज्ज्ञार्कसेवनात्स निषेव्यताम्
20
Keep
यो यो बोधातिशयवांस्तं तं पृथगुपास्व भो ।
संगमे कथयोदेति तेषां वादपिशाचिका
21
Keep
वादयक्षेऽप्यभ्युदिते बालस्येव विपश्चितः ।
युक्तियुक्तमलं मुख्यमुदेत्यहमिति भ्रमः
22
Keep
अतः प्रत्येकमेकान्ते प्राज्ञः सेवेत पण्डितम् ।
एकीकृत्य तदुक्तांस्तानर्थान्बुद्ध्या विचारयेत्
23
Keep
विचारयेत्तदुक्त्यर्थं बुद्ध्या बुद्धिविवृद्धये ।
सर्वसंकल्पमुक्तं यत्तत्सत्तन्मयतां व्रजेत्
24
Keep
विपश्चित्संगमैर्बुद्धिं नीत्वा परमतीक्ष्णताम् ।
अज्ञानलतिका सैका कणशः क्रियतामलम्
25
Keep
एषोऽर्थः संभवत्येव तेनेदं कथयाम्यहम् ।
स्वानुभूतं वयं बाला नासमञ्जसवादिनः
26
Keep
व्योम्नोऽम्बुवाहादिविजृम्भयेव
तरङ्गभंग्येव महाजलस्य ।
न युज्यते नापि च नश्यतीह
नाशोदयौ निर्मननस्य किंचित्
27
Keep
इदं हि सर्वं मृगतृष्णिकाम्बुव-
न्निरामये ब्रह्मणि शान्त आतते ।
विचारिते नाहमितीह विद्यते
कुतः क्व कस्मान्मननादिविभ्रमः
Previous
←
Sarga 31
Next
Sarga 33
→