Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 38
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
चित्पश्यति जगन्मिथ्या स्ववेदनविबोधिता ।
व्योम्नि मायाञ्जनासिक्ता दृगिवाचलतान्तरम्
2
Keep
ब्रह्मसर्गश्चित्तसर्गो द्वावेतौ सदृशौ मतौ ।
परमार्थस्वरूपत्वादक्षुब्धत्वात्सदैव च
3
Keep
ज्ञानरूपतयाबाह्यं बाह्यं चानुभवात्तथा ।
सत्यरूपमतः सत्यां विद्धि बाह्यार्थरूपताम्
4
Keep
बाह्यार्थवादविज्ञानवादयोरैक्यमेव नः ।
वेदनात्मैकरूपत्वात्सर्वदा सदसंस्थितेः
5
Keep
अक्षुब्धखानिलालोकजलभूशान्तिशालिनी ।
तता शून्या महारम्भा ब्रह्मसत्तैव सर्वतः
6
Keep
तस्मै सर्वं ततः सर्वं तत्सर्वं सर्वतश्च तत् ।
तच्च सर्वमयं नित्यं तस्मै सर्वात्मने नमः
7
Keep
चिन्मयत्वाद्यदा चेत्यमेति द्रष्टृचितैकताम् ।
तदा दृश्याङ्गयैवैतच्चेत्यते नान्यथा चिता
8
Keep
यदा चिन्मात्रमेवेयं द्रष्टृदर्शनदृश्यदृक् ।
तदानुभवनं तत्र सर्वस्य फलितं स्थितम्
9
Keep
द्रष्टृदृश्ये न यद्येकमभविष्यच्चिदात्मके ।
तद्दृश्यास्वादमज्ञः स्यान्ना दृष्ट्वेक्षुमिवोपलः
10
Keep
चिन्मयत्वाच्चितौ चेत्यं जलमप्स्विव मज्जति ।
तेनानुभूतिर्भवति नान्यथा काष्ठयोरिव
11
Keep
सजातीयैकताभावाद्यद्वत्काष्ठ न चेतते ।
दारु तद्वदपि द्रष्टा दृश्यं नाज्ञास्यदाजडम्
12
Keep
यादृक्सत्तानि काष्ठानि तादृग्रूपं त्वचेतनम् ।
जानन्ति नेतरत्तस्माद्दृश्यं चिद्दृश्यचेतनम्
13
Keep
महाचिदात्मनैवास्ति जलानिलधराश्मतम् ।
नैतेषु स्पन्दबुद्ध्यादि प्राणजीवाद्यभावतः
14
Keep
प्राणबुद्ध्यादयः सत्तां भावनावशतो गताः ।
भावना चिच्चमत्कारः स यथेच्छमुदेति च
15
Keep
जगत्तया शान्ततया ब्रह्मसत्तावतिष्ठते ।
पुंस्तया गत एवात्मा रेतोवटकबीजयोः
16
Keep
सर्वाग्राणुमये बीजे योऽस्मादग्रगतोऽणुकः ।
स स तत्तद्भवत्यग्रं बीजं च स्वात्मनि स्थितः
17
Keep
ब्रह्म सर्वपराण्वात्मा यो यस्मादर्थतोऽणुकः ।
स स तत्तद्भवेद्वस्तु वस्तुब्रह्मैव तिष्ठति
18
Keep
द्रव्यमेव यथा द्रव्यं तिर्यगूर्ध्वमधस्तथा ।
सर्वमेव तथा ब्रह्म येन तेन यथा तथा
19
Keep
हेमत्वमेव नान्यत्वं हेमरूपशते यथा ।
शान्तत्वमेव शान्तस्य सर्गाहंत्वगणे तथा
20
Keep
पार्श्वस्थस्वप्नमेघौघा यथा तव न काश्चन ।
सर्गप्रलयसंरम्भास्तथा खात्मान एव मे
21
Keep
पङ्कता कल्पिता व्योम्नो या पुत्रकपताकिनी ।
सा यथा शान्ततामात्रं खमेवेदं तथा जगत्
22
Keep
संकल्पभ्रम एवान्तः पुष्पीभूय जगत्स्थितम् ।
जलावनितलक्लिन्नबीजं कल्प इव द्रुमः
23
Keep
अनहंतात्मनो ज्ञस्य सत एकत्वमासतः ।
जरत्तृणलवायन्ते ननु नामाऽणिमादयः
24
Keep
त्रैलोक्ये तन्न पश्यामि सदेवासुरमानुषम् ।
एकरोमांशविश्वस्य यल्लोभाय महात्मनः
25
Keep
यथा तथा स्थितस्यापि यत्र तत्र गतस्य च ।
द्वैतसंकल्पसंदोहा न सन्त्यधिगतात्मनः
26
Keep
विश्वमेव नभो यस्य शून्यं सर्वं महात्मनः ।
कुतः कस्य कथं तस्य भवत्विच्छा निरात्मनः
27
Keep
शान्ताशेषविशेषस्य निरेषणविशेषतः ।
सत्तामसत्तां सदृशौ क आकलयितुं क्षमः
28
Keep
मारैर्न किंचिन्म्रियते जीवैः किंचिन्न जीवति ।
शुद्धसंविन्मयस्यास्य समालोकस्य खस्य च
29
Keep
मिथ्या लोकस्य कचतो भ्रान्त्या मरणजन्मनी ।
असत्यपि भ्रान्तिभाजि मृगतृष्णानदीतटे
30
Keep
सम्यक्परीक्षितं यावन्न भ्रान्तिर्न परीक्षकाः ।
न नाम जन्ममरणे केवलं शान्तमव्ययम्
31
Keep
दृश्याद्यो विरतिं यात आत्मारामः शमं गतः ।
स सन्नेवासदाभासः परितीर्णभवार्णवः
32
Keep
दीपनिर्वाणनिर्वाणमस्तंगतमनोगतिम् ।
आत्मन्येव शमं यातं सन्तमेवामलं विदुः
33
Keep
आबुद्ध्यादि जगद्दृश्यं यस्मै न स्वदते स्वतः ।
आकाशस्येव शान्तस्य तमाहुर्मुक्तमुत्तमाः
34
Keep
अहमस्त्यविचारेण विचारेणाहमस्ति नो ।
अभावादहमर्थस्य क्व जगत्क्व च संसृतिः
35
Keep
संवित्संवेदनादेव बुद्ध्याद्याकारवत्स्थितम् ।
रूपालोकमनोरूपं जगद्वेत्ति चिदम्बरम्
36
Keep
सर्वार्थरिक्तमनसः सतः सर्वात्मनस्तव ।
सर्वथा सर्वदा सर्वं सर्वमाचरणं शिवम्
37
Keep
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि हंस्येषि तत्सर्वं शिवमव्ययम्
38
Keep
यदहं यत्त्वमाशा यद्यत्क्रियाकालखादयः ।
यल्लोकालोकगिरयस्तच्चिद्व्योम शिवं ततम्
39
Keep
यद्रूपालोकमननं यत्कालत्रितयं जगत् ।
यज्जरामरणार्त्यादि तन्महाचिन्नभः शिवम्
40
Keep
निश्चिकित्सो निराभासो निरिच्छो निर्मना मुनिः ।
भूत्वा निरात्मा निर्वाणस्तिष्ठ संतिष्ठसे यथा
41
Keep
गतेच्छमननं शान्तमनन्तस्थमभावनम् ।
व्यवहारोऽस्तु ते मा वा स्पन्दास्पन्दैर्यथानिलः
42
Keep
निर्वासना निष्कलना शान्ता पुरुषतास्तु ते ।
शास्त्रेण यन्त्रवाहेन वाह्या दारुमयी यथा
43
Keep
भूतालोकस्तु माऽऽस्नेहो मा वाऽस्नेहश्च बाह्यगः ।
अनिर्देशधरालोकश्चित्रदीपवदास्यताम्
44
Keep
निर्वासनस्य विरसस्य निरेषणस्य
शास्त्रादृते क इव तत्त्वविनोदहेतुः ।
शास्त्रार्थसज्जनमतोऽप्यमलस्य तस्य
संवेदनेष्वनभिसंधिमतः स्वरूपम्
Previous
←
Sarga 37
Next
Sarga 39
→