Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 71
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकजनैः सह ।
बद्धपद्मासनोऽनन्तसमाधानगतोऽभवत्
2
Keep
ओंकारार्धोऽर्धमात्रान्तः शान्तनिःशेषमानसः ।
लिपिकर्मार्पिताकार आसीदाशान्तवेदनः
3
Keep
तमेवानुसरन्ती सा तथैव ध्यानगा सती ।
वासनासीदशेषांशा शान्ता चाकाशरूपिणी
4
Keep
परमेष्ठिन्यसंकल्पे तस्मिंस्तानवमेयुषि ।
सर्वगानन्तचिद्व्योमरूपोऽपश्यमहं यदा
5
Keep
यावत्संकल्पनं तस्य विरसीभवति क्षणात् ।
तथैवाशु तथैवोर्व्याः साद्रिद्वीपपयोनिधेः
6
Keep
तृणगुल्मलताशालिसमुद्भवनशक्तता ।
समस्तैवास्तमागन्तुमारब्धा च शनैःशनैः
7
Keep
किल तस्य विराडात्मरूपस्याङ्गैकदेशताम् ।
सा बिभर्ति मही तेन तदसंवेदनोदयात्
8
Keep
विचेतना सा विरसा बभूव परिजर्जरा ।
मार्गशीर्षान्तवल्लीव जराविधुरतां गता
9
Keep
यथास्माकमसंवित्तेरङ्गाली विरसा भवेत् ।
तथा विरिंचिसंवित्तैर्धरा वैधुर्यमागता
10
Keep
संपन्ना संहतानेकमहोत्पातभरावृता ।
दुष्कृताङ्गारनिर्दग्धनरकोन्मुखमानवा
11
Keep
दुर्भिक्षाकाण्डदौस्थित्यदैन्यदारिद्र्यदुर्भगा ।
दुःशीलाशेषवनिता निर्मर्यादनरावृता
12
Keep
पांसुप्रमन्दनीहारधूलिधूसरसूर्यका ।
द्वन्द्विमूर्खमहादुःखिव्यसनिव्याधिताकुला
13
Keep
अग्निदाहजलापूरयुद्धप्रोच्छिन्नमण्डला ।
अवृष्ट्यवग्रहोन्नष्टकष्टचेष्टितपामरा
14
Keep
अशङ्कितमहोत्पातपतत्पर्वतपत्तना ।
शिशुश्रोत्रियमुन्यार्यगुणिनाशरुदज्जना
15
Keep
अशङ्कितस्थलीमध्यसंजातागाधकूपका ।
वर्णसंकरनारीणामासक्तजनभूमिपा
16
Keep
अट्टशूलाखिलजना शिवशूलचतुष्पथा ।
केशैकशूलवनिता पात्रशूलजनेश्वरा
17
Keep
दुःखशूलसमाचारा द्वन्द्वशूलाखिलप्रजा ।
अधर्मशूलवनिता पानशूलजनेश्वरा
18
Keep
अधर्मशूलवलिता कुशास्त्रशतशूलिनी ।
दुर्जनाखिलवित्ताढ्या विपद्विहतसज्जना
19
Keep
अनार्यवसुधापाला तदनादृतपण्डिता ।
लोभमोहभयद्वेषरागरोगरजोरता
20
Keep
अप्यन्यगामिपुरुषा रुषाभिहतसद्विजा ।
अनारतपराक्रन्दपरापर्यन्तपामरा
21
Keep
दस्यूत्सन्नपुरग्रामदेवद्विजसमाश्रया ।
आपातमधुरारम्भदुःखदोदरभङ्गुरा
22
Keep
आलस्योल्लासविलसत्कार्यवैधुर्यधर्मिणी ।
सर्वापदुपतापान्ता क्रमेणोत्सन्नदिग्गणा
23
Keep
भस्मशेषपुरग्रामा निर्जनाखिलमण्डला ।
रोरूयमाणभस्माभ्रकुण्डलोड्डामराम्वरा
24
Keep
दुर्भगाडम्बरारम्भरोदनोरुरवोदरी ।
मुष्टिप्रमाणजनता जनतापानुषङ्गिणी
25
Keep
नीरसाशेषदेशान्ता सर्वर्तुगुणवर्जिता ।
इत्यस्य पार्थिवे धातौ ब्रह्मणो गतवेदने
26
Keep
पृथिवी पृथुवैधुर्या संपन्नासन्ननाशतः ।
अथ तत्संविदुन्मुक्तो जलधातुः क्षयोन्मुखः
27
Keep
यदा विक्षुभितात्मासीत्तदा नियत्तिलङ्घनात् ।
समुत्सार्यार्यमर्यादामर्णवा विवृतार्णसः
28
Keep
प्रवृत्ता विकृतिं गन्तुमुन्मत्ता इव राविणः ।
वीचिविक्षोभविन्यासैर्वेलाविपिनलावकाः
29
Keep
कल्लोलवलनावर्तविवर्तोद्वर्तिताश्रयाः ।
महाभ्रभ्रमदुत्तुङ्गतरङ्गात्तनभोदिशः
30
Keep
बृहद्गुलुगुलावर्तगर्जनोद्द्रवकन्दराः ।
सीकरौघमहारम्भघनसंवलिताचलाः
31
Keep
चलच्चलचलद्वीरमकराघूर्णितान्तराः ।
उल्लसन्मकराक्रान्तद्रुमकाननितोदराः
32
Keep
दरीविदारणभ्रष्टसिंहाहतजलेचराः ।
ऊर्म्युदस्तमहारत्नभरतारकिताम्बराः
33
Keep
उत्फालमकरच्छन्ननभश्चरबृहद्धनाः ।
परस्परोर्मिसंघट्टभांकारकटुटांकृताः
34
Keep
तरत्तरलमातङ्गफूत्कारा धौतभास्कराः ।
अन्योन्यवेल्लनव्यग्रप्रविदीर्णाद्रिभित्तयः
35
Keep
तटपर्वतलुण्टाकतरङ्गकरमण्डलाः ।
गर्जद्गिरिदरीगेहविशदुन्मत्तवारयः
36
Keep
भूपाः परपुराक्रान्ता लग्ना इव हतारयः ।
तारारवरणद्गेहविद्रावितनभश्चराः
37
Keep
प्रलुण्ठितवनव्यूहलूनकाननिताम्बराः ।
सपक्षपर्वताकारतरङ्गापूरिताम्बराः
38
Keep
महारवमरुच्छिन्नकल्लोलाचलचालिताः ।
चञ्चत्तीरगिरिव्रातपतत्तटरटज्जलाः
39
Keep
उल्लसद्विपुलावर्तप्रोत्क्षिप्तमकरोत्कराः ।
विमज्जन्निस्तलावर्तनिगीर्णगिरिकन्दराः
40
Keep
दरीदलनसंप्राप्तदृषद्दशनदन्तुराः ।
श्रृङ्गलम्बिदरीप्रान्तमग्नवीचिजलेभकाः
41
Keep
व्यालोलवलनाक्रान्तविटपिप्रोतकच्छपाः ।
यमेन्द्रवसुधावाहैरुत्कर्णैर्भयविह्वलैः
42
Keep
श्रूयमाणपतच्छैलतटीकटकटारवाः ।
मत्स्यपुच्छच्छटाच्छिन्नमग्नोन्मग्नद्रुताद्रयः
43
Keep
लीलालूनवनव्यूहशीतलासारवारयः ।
प्रज्वलद्वडवावह्निज्वालावलिमिलज्जलाः
44
Keep
सरसेन विभोर्नाशैर्विशङ्कितमहानलाः ।
मिलच्छिखरिमालाग्रजलमातङ्गयोधिनः
45
Keep
नृत्यन्तीव तरङ्गौधैर्जलावलनवेधिनः ।
जलाचलाचलान्योन्यसंघट्टस्फोटपण्डिताः
46
Keep
बृहद्गिरिवनव्रातप्राणिमण्डलमण्डिताः ।
उड्डामरवनेमेन्द्रभेरीवादनभासुरैः
47
Keep
असुरैरिव पातालं कल्लोलैरलमाकुलाः ।
अथोदपतदुन्नासदिङ्नागवदनध्वनिः
48
Keep
पातालतलताल्वन्तर्विस्फोटामोटनोद्भटः ।
चञ्चलाचलकीलोर्वी चचाल क्षणचालिता
49
Keep
लोला शैवालवल्लीव व्यालोलाम्भोधिलङ्घिता ।
अथ दुर्वारनिर्घोषनिर्वाताडम्बरान्विता
50
Keep
पुस्फोटेव पतन्ती द्यौर्दिशां पतिरवारवैः ।
आवर्तवलनाकाराः केतवः पेतुरम्बरात्
51
Keep
हेमरत्नमया मुक्ताः सिन्दूरभुजगा इव ।
ककुब्भ्यो नभसो भूमेरुदगुर्दग्धदिक्तटाः
52
Keep
चलज्ज्वालाजटाटोपा विविधोत्पातपङ्कयः ।
पृथ्व्यादीन्यसुरादीनि ब्रह्मोन्मुक्तानि सर्वतः
53
Keep
द्विविधानि महाभूतान्यलं संक्षोभमाययुः ।
चन्द्रार्कानिलशक्राग्नियमाः कोलाहलाकुलाः
54
Keep
परिपातपरा आसन्ब्रह्मलोकगतेश्वराः ।
कम्पैः कटकटारावपतत्पादपपङ्कयः
55
Keep
भूमेरन्वभवन्भूरिदोलान्दोलनमद्रयः ।
भूकम्पलोलकैलासमेरुमन्दरकन्दराः ।
पेतुः कल्पतरून्मुक्ता रक्तस्तबकवृष्टयः
56
Keep
लोकान्तराद्रिपुरवारिधिकाननान्त-
मुत्पातकल्पपवनेन मिथो हतानाम् ।
कोलाहलैर्जगदभूत्प्रविकीर्णशीर्णं
पूर्णार्णवे त्रिपुरपूर इवाभिपाती
Previous
←
Sarga 70
Next
Sarga 72
→