Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 85
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
इति नृत्यति सा देवी दीर्घदोर्दण्डमण्डलैः ।
परिस्पन्दात्मकैर्व्योम कुर्वाणा घनकाननम्
3
Keep
क्रियासौ नृत्यति तथा चितिशक्तिरनामया ।
अस्या विभूषणं शूर्पकुडालपटलादिकम् । ।
ऐ
शरशक्तिगदाप्रासमुसलादि शिलादि च ।
भावाभावपदार्थौघकलाकालक्रमादि च
4
Keep
चित्स्पन्दोऽन्तर्जगद्धत्ते कल्पनेव पुरं हृदि ।
सैव वा जगदित्येव कल्पनैव यथा पुरम्
5
Keep
पवनस्य यथा स्पन्दस्तथैवेच्छा शिवस्य सा ।
यथास्पन्दोऽनिलस्यान्तः प्रशान्तेच्छस्तथा शिवः
6
Keep
अमूर्तो मूर्तमाकाशे शब्दाडम्बरमानिलः ।
यथा स्पन्दस्तनोत्येवं शिवेच्छा कुरुते जगत्
7
Keep
नृत्यन्त्याथ यदा तत्र तथा तस्मिन्पराम्बरे ।
काकतालीययोगेन संरम्भवशतः स्वयम्
8
Keep
निकटस्थः शिवः स्पृष्टः स मनागभ्रमन्तिकम् ।
वाडवोऽग्निः स्वनाशाय वहन्त्येवाम्बुलेखया
9
Keep
स्पृष्टमात्रे शिवे तस्मिंस्ततः परमकारणे ।
प्रवृत्ता प्रकृतिं गन्तुं सा शनैरुरजां तथा
10
Keep
अनन्ताकारतां त्यक्त्वा संपन्ना गिरिमात्रिका ।
ततो नगरमात्रासौ ततश्च द्रुमसुन्दरी
11
Keep
ततो व्योमसमाकारा शिवस्यैवाकृतिं ततः ।
सा प्रविष्टा सरिच्छान्तसंरम्भेव महार्णवम्
12
Keep
एक एवाभवदथो शिवया परिवर्जितः ।
शिव एव शिवः शान्त आकाशे शमनोऽभितः
13
Keep
भगवञ्छिवसंस्पृष्टा सा शिवा परमेश्वरी ।
किमर्थमागता शान्तिमिति मे ब्रूहि तत्त्वतः
14
Keep
सा राम प्रकृतिः प्रोक्ता शिवेच्छा पारमेश्वरी ।
जगन्मायेति विख्याता स्पन्दशक्तिरकृत्रिमा
15
Keep
स परः प्रकृतेः प्रोक्तः पुरुषः पवनाकृतिः ।
शिवरूपधरः शान्तः शरदाकाशशान्तिमान्
16
Keep
भ्रमति प्रकृतिस्तावत्संसारे भ्रमरूपिणी ।
स्पन्दमात्रात्मिका सेच्छा चिच्छक्तिः पारमेश्वरी
17
Keep
यावन्न पश्यति शिवं नित्यतृप्तमनामयम् ।
अजरं परमाद्यन्तवर्जितं वर्जितद्वयम्
18
Keep
संविन्मात्रैकधर्मित्वात्काकतालीययोगतः ।
संविद्देवी शिवं स्पृष्ट्वा तन्मयीव भवत्यलम्
19
Keep
प्रकृतिः पुरुषं स्पृष्ट्वा प्रकृतित्वं समुज्झति ।
तदन्तरेकतां गत्वा नदीरूपमिवार्णवे
20
Keep
आपगा हि पयोमात्रं सङ्गे अर्णव एव सा ।
यदा तदा तमेवाशु प्राप्य तत्रैव लीयते
21
Keep
चितिः शिवेच्छा सा देवं तमेवासाद्य शाम्यति ।
जन्मस्थानशिलां प्राप्य तीक्ष्णधारा यथायसी
22
Keep
पुंसश्छायां निजच्छाया प्रविष्टस्य शरीरकम् ।
यथाशु प्रविशत्येव प्रकृतिः पुरुषं तथा
23
Keep
चेतित्वा चिन्निजं भावं पुरुषाख्यं सनातनम् ।
भूयो भ्रमति संसारे नेह तत्तां प्रयाति हि
24
Keep
साधुर्वसति चोरौघे तावद्यावदसौ नतम् ।
परिजानाति विज्ञाय न तत्र रमते पुनः
25
Keep
द्वैते तावदसद्रूपे रमते भ्रमते चितिः ।
परं पश्यति नो यावत्तं दृष्ट्वा तन्मयी भवेत्
26
Keep
चितिनिर्वाणरूपं यत्प्रकृतिः परमं पदम् ।
प्राप्य तत्तामवाप्नोति सरिदब्धाविवाब्धिताम्
27
Keep
तावद्विमोहवशतश्चितिराकुलेषु
सर्गेषु संसरति जन्मदशासु तासु ।
यावन्न पश्यति परं तमथाशु दृष्ट्वा
तत्रैव मज्जति घनं मधुनीव भृङ्गी
28
Keep
संप्राप्य कस्त्यजति नाम तदात्मतत्त्वं
प्राप्यानुभूय च जहाति रसायनं कः ।
शाम्यन्ति येन सकलानि निरन्तराणि
दुःखानि जन्ममृतिमोहमयानि राम
Previous
←
Sarga 84
Next
Sarga 86
→