Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 88
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
भूपीठेन सता तत्र मया तदनु मानव ।
अनुभूतं नदनदीस्वसंवेदनसंस्थितेः
2
Keep
क्वचिन्मरणसाक्रन्दनारीकरुणवेदनम् ।
क्वचिदुत्ताण्डवस्त्रैणमहोत्सवमहासुखम्
3
Keep
क्वचिद्दुर्वारदुर्भिक्षदुराक्रन्दं दुरीहितम् ।
क्वचित्सकलसस्यौघसंपन्नघनसौहृदम्
4
Keep
क्वचिदग्निमहादाहदग्धदेहोग्रवेदनम् ।
क्वचिज्जलप्लवालूनपुरपत्तनखण्डकम्
5
Keep
क्वचिच्चपलसामन्तकृतलुण्ठनमण्डलम् ।
क्वचिदुद्दामदौरात्म्यरक्षःपैशाचमण्डलम्
6
Keep
क्वचिज्जलाशयोल्लासवेल्लनोत्पुलकाग्रकम् ।
कन्दरोदरनिष्क्रान्तवातवेल्लितवारिदम्
7
Keep
संविद्बोधोन्नमत्स्वाङ्गकेशोत्थाङ्कुरलोमकम् ।
वारिवाहनविक्षोभनतोन्नतलसत्तलम्
8
Keep
सशृङ्गभैरवश्वभ्रपुराद्रिवनपत्तनम् ।
संविन्मण्डलसंचाललेखाङ्कमृदुकम्पनम्
9
Keep
क्वचित्सामन्तसंक्षुब्धसैन्यसंहरणं रणे ।
क्वचित्सौम्यसुखासीनसर्वसामन्तमण्डलम्
10
Keep
अरण्यं क्वचिदाशून्यमुल्लसद्वातझंकृति ।
जंगलं क्वचिदालूनव्युप्तसंपन्नसस्यकम्
11
Keep
हंसकारण्डवाकीर्णसरः फुल्लाम्बुजं क्वचित् ।
क्वचिन्मरुस्थलस्थूलस्तम्भनार्जुनमारुतम्
12
Keep
क्वचिन्नदनदीवाहहेलानिकषघर्घरम् ।
क्वचिदङ्कुरकार्याङ्गसिक्तबीजस्य जृम्भणम्
13
Keep
क्वचिदन्तस्तु कीटास्यमृदुस्पन्दनवेदनम् ।
मां त्वमेवाशु बुद्ध्वेह त्रायस्वेतीव बोधनम्
14
Keep
शाखापरिकराभोगं मृद्भागाङ्गनिपीडनैः ।
मूलजालमवष्टभ्य क्वचिद्विटपधारिणम्
15
Keep
अन्योन्यमलमाक्रम्य दिक्तटाङ्गनिपीडनैः ।
क्वचिदद्र्य(?)स्थिनिबिडैरर्णवोल्लासवेल्लितम्
16
Keep
शुष्कपल्लवसंकोचनिबिडाङ्गनिपीडनम् ।
अमर्षणैः करैरार्कैः स्वरसाकर्षणं क्वचित्
17
Keep
शृङ्गमन्दिरमातङ्गप्रहाराशनिभूरुहाम् ।
निबिडाङ्गोत्कटस्थैर्यपरुषापतनं क्वचित्
18
Keep
निमीलितैक्षणानन्दतनूनामसमाक्रमम् ।
क्वचित्सूक्ष्मतरोल्लेखमङ्कुरोल्लासनं नवम्
19
Keep
मक्षिकायौकमशकनिवाससदृशं क्वचित् ।
कुड्यलेशकुभृङ्गारिहलहेलानिकर्षणम्
20
Keep
शीतं शीतविशीर्णाङ्गजर्जरत्वग्विकीर्णवत् ।
पाषाणीभूतसलिलं क्वचित्परुषमारुतम्
21
Keep
उद्दालीभूतमृद्वङ्गमज्जदन्तःकृमिव्रजम् ।
क्वचिदुद्भवदङ्गादिमूलं जलनिमज्जनम्
22
Keep
शनैरन्तर्निलीनाम्बुकृताह्लादं बहिश्च र-
-सोन्नामाङ्कुररोमौघं क्वचिद्वर्षविजृम्भितम्
Previous
←
Sarga 87
Next
Sarga 89
→