Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 90
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अनन्तरं वद ब्रह्मञ्जगन्ति भवता तदा ।
भूमण्डलानां हृदये क्वचिद्दृष्टानि नैव वा
2
Keep
परात्मजाग्रत्स्वप्नोर्वीमण्डलौघात्मना मया ।
ततोऽनुभूतं हृदये दृष्टं च परया दृशा
3
Keep
यावत्तथैव सर्वत्र जगज्जालमवास्थितम् ।
सर्वं दृश्यमयं शान्तमपि द्वैतमयात्मकम्
4
Keep
जगन्ति सन्ति सर्वत्र सर्वत्र ब्रह्म संस्थितम् ।
सर्वं शून्यं परं शान्तं सर्वमारम्भमन्थरम्
5
Keep
सर्वत्रैवास्ति पृथ्व्यादि स्थूलं तच्च न किंचन ।
चिद्व्योमैव यथा स्वप्नपुरं परमजातवत्
6
Keep
नेह नानास्ति नो नाना न नास्तित्वं न चास्तिता ।
अहमित्येव नैवास्ति यत्र तत्र कुतोऽस्ति किम्
7
Keep
अनुभूतमपीदं सदहमित्यादिरूपकम् ।
नास्त्येव यदि वाप्यस्ति तद्ब्रह्माजमनामयम्
8
Keep
यत्स्वप्नपुरमेवेदं सर्गादावेव चिन्नभः ।
अस्तितानास्तिते तत्र कीदृशे क्व कुतः स्थिते
9
Keep
यथाहं दृष्टवांस्तानि जगन्त्यवनिरूपधृक् ।
तथा मया जलीभूय दृष्टं तादृशमेव तत्
10
Keep
वारिधारणया वारि भूत्वा जडमिवाजडम् ।
समुद्रमन्दिरेष्वन्तश्चिरं गुलगुलायितम्
11
Keep
तृणवृक्षलतागुल्मवल्लीनां स्तम्भनाडिषु ।
मृद्वलक्षितमारूढं तवाङ्गेष्विव यूकया
12
Keep
सर्वोत्थानोपमास्तम्भे तच्छेदे वलयोपमा ।
मृद्व्या कर्णाहिगत्येव रचना प्रकृतोदरे
13
Keep
वल्लीतमालतालादिपल्लवेषु फलेषु च ।
विश्रम्य पुष्टयाऽऽकृत्या रेखाविरचनं कृतम्
14
Keep
मुखेनाविश्य हृदयमृतुवैधुर्यधारिणा ।
हृता विधुरिता भुक्ता लूना देहेषु धातवः
15
Keep
सुप्तं पल्लवतल्पेषु प्रालेयकणरूपिणा ।
तुल्यकालमशेषेषु दिक्षु सर्वास्वखेदिना
16
Keep
नानाह्रदनदीगेहग्राहिणाऽविरताध्वना ।
विश्रान्तं सेतुसुहृदः प्रसादेन क्वचित्क्वचित्
17
Keep
विदाऽविदनुसंधानाज्जडेन तदनाश्रयात् ।
जडाशयेषूल्लसितं जलेनावर्तवर्तिना
18
Keep
मया दुष्कृतिनेवोर्ध्वशिलास्वस्थेन भूभृताम् ।
स्वावर्तवर्तिना श्वभ्रपातेषु शतधा गतम्
19
Keep
धूमरूपेण निर्गत्य दारुभ्यो गगनार्णवे ।
कणरत्नेन नीलर्क्षमण्यन्तर्वर्तिना स्थितम्
20
Keep
विश्रान्तमभ्रपीठेषु विद्युद्वनितया सह ।
भिन्नेन्द्रनीलनीलेन शेषाङ्गेष्विव शौरिणा
21
Keep
परमाणुमये सर्गे पिण्डरूपेष्वलक्षितम् ।
स्थितमन्तःपदार्थेषु ब्रह्मणैवाखिलात्मना
22
Keep
प्राप्य जिह्वाणुभिः सङ्गमनुभूतिः कृतोत्तमा ।
यामात्मनो न देहस्य मन्ये ज्ञानस्य केवलम्
23
Keep
न मया न च देहेन नान्येनास्वादितात्म यत् ।
तदन्तर्विवृतं चेत्यमज्ञानाय तदप्यसत्
24
Keep
सर्वर्तुरसरूपेण नानामोदानि दिक्ष्वलम् ।
भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये
25
Keep
चतुर्दशप्रकाराणां भूतानामङ्गसन्धिषु ।
उषितं चेतनेनेव जडेनाप्यजडात्मना
26
Keep
सीकरोत्कररूपेण रथमारुह्य मारुतम् ।
आमोदेनेव विहितं विमलव्योमवीथिषु
27
Keep
राम तस्यामवस्थायां परमाणुकणं प्रति ।
अनुभूतमशेषेण यथास्थितमिदं जगत्
28
Keep
अजडेन जडेनेव समया जालया तया ।
अन्तःसर्वपदार्थानां ज्ञाताज्ञातेन संस्थितम्
29
Keep
जगतां तत्र लक्षाणि नाशोत्पातशतानि च ।
मया दृष्टानि रूढानि कदलीदलपीठवत्
30
Keep
एवं जगच्चाजगद्वा साकारं वा निराकृति ।
चिन्मात्रगगनं सर्वमाकाशाधिकनिर्मलम्
31
Keep
न किंचनत्वं च न किंचनेदं
शुद्धः परो बोध इदं विभाति ।
स चापि नो किंचन नापि शून्य-
माकाशमेवासि विकासमास्व
Previous
←
Sarga 89
Next
Sarga 91
→