Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Mukunda Mālā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासे-
त्यालापिनं प्रतिपदं कुरु मे मुकुन्द ॥ १ ॥
2
Keep
जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥
3
Keep
मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥
4
Keep
नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्व हेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ ४ ॥
5
Keep
नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्यद् भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत् प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ५ ॥
6
Keep
दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक प्रकामम् ।
अवधीरित शारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि ॥ ६ ॥
7
Keep
कृष्ण त्वदीय पदपङ्कज पञ्जरान्तम्
अद्यैव मे विशतु मानस राजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७ ॥
8
Keep
चिन्तयामि हरिमेव सन्ततं
मन्दमन्द हसिताननाम्बुजम् ।
नन्दगोप तनयं परात्परं
नारदादि मुनिबृन्द वन्दितम् ॥ ८ ॥
9
Keep
करचरणसरोजे कान्तिमन्नेत्रमीने
श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे ।
हरिसरसि विगाह्यापीय तेजोजलौघं
भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ ९ ॥
10
Keep
सरसिजनयने सशङ्खचक्रे
मुरभिदि मा विरमस्व चित्त रन्तुम् ।
सुखतरमपरं न जातु जाने
हरिचरण स्मरणामृतेन तुल्यम् ॥ १० ॥
11
Keep
माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः
नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११ ॥
12
Keep
भवजलधिगतानां द्वन्द्ववाताहतानां
सुतदुहितृकळत्र त्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां
भवतु शरणमेको विष्णुपोतो नराणाम् ॥ १२ ॥
13
Keep
भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मास्मगाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १३ ॥
14
Keep
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दारावर्ते तनयसहजग्राहसंघाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ १४ ॥
15
Keep
माद्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान् पदाब्जे
माश्रौषं श्राव्यबन्धं तव चरितमपास्याऽन्यदाख्यानजातम् ।
मास्मार्षं माधव त्वामपि भुवनपते चेतसाऽपह्नुवानान्
माभूवं त्वत्सपर्या व्यतिकर रहितो जन्मजन्मान्तरेऽपि ॥ १५ ॥
16
Keep
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्व समर्चयाच्युत कथाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छांघ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपाद तुलसीं मूर्धन् नमाधोक्षजम् ॥ १६ ॥
17
Keep
हे लोकाश्शृणुत प्रसूति मरणव्याधेश्चिकित्सामिमां
योगज्ञास्समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां
तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १७ ॥
18
Keep
हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुळं सम्यक्प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं
मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ १८ ॥
19
Keep
पृथ्वी रेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनलः
तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटास्समस्तास्सुराः
दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १९ ॥
20
Keep
बद्धेनाञ्जलिना नतेन शिरसा गात्रैस्सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्ण बाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगळ ध्यानामृतास्वादिनां
अस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ २० ॥
21
Keep
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्र करुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ २१ ॥
22
Keep
भक्तापायभुजङ्गगारुडमणिः त्रैलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुच द्वन्द्वैकभूषामणिः
श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २२ ॥
23
Keep
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुपचिततमस्सङ्घनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजग सन्दष्ट सन्त्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जपजप सततं जन्मसाफल्यमन्त्रम् ॥ २३ ॥
24
Keep
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब मनश्श्रीकृष्णदिव्यौषधम् ॥ २४ ॥
25
Keep
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंस्मृतीः विजयते देवस्स नारायणः ॥ २५ ॥
26
Keep
श्रीमन्नाम प्रोच्य नारायणाख्यं
के न प्रापुर्वाञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन्
तेन प्राप्तं गर्भवासादिदुःखम् ॥ २६ ॥
27
Keep
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारक भृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २७ ॥
28
Keep
नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥ २८ ॥
29
Keep
मदन परिहर स्थितिं मदीये
मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयन कृशानुना कृशोऽसि
स्मरसि न चक्रपराक्रमं मुरारेः ॥ २९ ॥
30
Keep
तत्त्वं ब्रुवाणानि परं परस्मात्
मधु क्षरन्तीव सतां फलानि ।
प्रावर्तय प्राञ्जलिरस्मि जिह्वे
नामानि नारायण गोचराणि ॥ ३० ॥
31
Keep
इदं शरीरं परिणामपेशलं
पतत्यवश्यं श्लथसन्धिजर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते
निरामयं कृष्णरसायनं पिब ॥ ३१ ॥
32
Keep
दारा वाराकरवरसुता ते तनूजो विरिञ्चिः
स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्माया जगदविकलं तावकी देवकी ते
माता मित्रं वलरिपुसुतस्त्वय्यतोन्यन्न जाने ॥ ३२ ॥
33
Keep
कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं
कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम् ॥ ३३ ॥
34
Keep
तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नमनन्त दीनम्
उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ३४ ॥
35
Keep
नमामि नारायण पादपङ्कजं
करोमि नारायण पूजनं सदा ।
वदामि नारायण नाम निर्मलं
स्मरामि नारायण तत्त्वमव्ययम् ॥ ३५ ॥
36
Keep
श्रीनाथ नारायण वासुदेव
श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
श्री पद्मनाभाच्युत कैटभारे
श्रीराम पद्माक्ष हरे मुरारे ॥ ३६ ॥
37
Keep
अनन्त वैकुण्ठ मुकुन्द कृष्ण
गोविन्द दामोदर माधवेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चित्
अहो जनानां व्यसनाभिमुख्यम् ॥ ३७ ॥
38
Keep
ध्यायन्ति ये विष्णुमनन्तमव्ययं
हृत्पद्ममध्ये सततं व्यवस्थितम् ।
समाहितानां सतताभयप्रदं
ते यान्ति सिद्धिं परमाञ्च वैष्णवीम् ॥ ३८ ॥
39
Keep
क्षीरसागर तरङ्गशीकरा-
सारतारकित चारुमूर्तये ।
भोगिभोग शयनीयशायिने
माधवाय मधुविद्विषे नमः ॥ ३९ ॥
40
Keep
यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ
मित्रे द्विजन्मवरपद्म शरावभूताम् ।
तेनाम्बुजाक्ष चरणाम्बुज षट्पदेन
राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ४० ॥