Contents
Recognition
Home
Library
Find
Shelf
Settings
←
Leave
Anuttarāṣṭikā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
संक्रामोऽत्र
न
भावना
न
च
कथायुक्तिर्न
चर्चा
न
च
ध्यानं
वा
न
च
धारणा
न
च
जपाभ्यासप्रयासो
न
च
।
तत्किं
नाम
सुनिश्चितं
वद
परं
सत्यं
च
तच्छ्रूयतां
न
त्यागी
न
परिग्रही
भज
सुखं
सर्वं
यथावस्थितः
॥ १ ॥
2
▾
Meaning
Keep
संसारोऽस्ति
न
तत्त्वतस्तनुभृतां
बन्धस्य
वार्तैव
का
बन्धो
यस्य
न
जातु
तस्य
वितथा
मुक्तस्य
मुक्तिक्रिया
।
मिथ्यामोहकृदेष
रज्जुभुजगच्छायापिशाचभ्रमो
मा
किंचित्त्यज
मा
गृहाण
विलस
स्वस्थो
यथावस्थितः
॥ २ ॥
3
▾
Meaning
Keep
पूजापूजकपूज्यभेदसरणिः
केयं
कथानुत्तरे
संक्रामः
किल
कस्य
केन
विदधे
को
वा
प्रवेशक्रमः
।
मायेयं
न
चिदद्वयात्परतया
भिन्नाप्यहो
वर्तते
सर्वं
स्वानुभवस्वभावविमलं
चिन्तां
वृथा
मा
कृथाः
॥ ३ ॥
4
▾
Meaning
Keep
आनन्दोऽत्र
न
वित्तमद्यमदवन्नैवाङ्गनासङ्गवत्
दीपार्केन्दुकृतप्रभाप्रकरवन्
नैव
प्रकाशोदयः
।
हर्षः
संभृतभेदमुक्तिसुखभूर्भारावतारोपमः
सर्वाद्वैतपदस्य
विस्मृतनिधेः
प्राप्तिः
प्रकाशोदयः
॥ ४ ॥
5
▾
Meaning
Keep
रागद्वेषसुखासुखोदयलयाहंकारदैन्यादयो
ये
भावाः
प्रविभान्ति
विश्ववपुषो
भिन्नस्वभावा
न
ते
।
व्यक्तिं
पश्यसि
यस्य
यस्य
सहसा
तत्तत्तदेकात्मता-
संविद्रूपमवेक्ष्य
किं
न
रमसे
तद्भावनानिर्भरः
॥ ५ ॥
6
▾
Meaning
Keep
पूर्वाभावभवक्रिया
हि
सहसा
भावाः
सदाऽस्मिन्भवे
मध्याकारविकारसङ्करवतां
तेषां
कुतः
सत्यता
।
निःसत्ये
चपले
प्रपंचनिचये
स्वप्नभ्रमे
पेशले
शङ्कातङ्ककलङ्कयुक्तिकलनातीतः
प्रबुद्धो
भव
॥ ६ ॥
7
▾
Meaning
Keep
भावानां
न
समुद्भवोऽस्ति
सहजस्त्वद्भाविता
भान्त्यमी
निःसत्या
अपि
सत्यतामनुभवभ्रान्त्या
भजन्ति
क्षणम्
।
त्वत्संकल्पज
एष
विश्वमहिमा
नास्त्यस्य
जन्मान्यतः
तस्मात्त्वं
विभवेन
भासि
भुवनेष्वेकोप्यनेकात्मकः
॥ ७ ॥
8
▾
Meaning
Keep
यत्सत्यं
यदसत्यमल्पबहुलं
नित्यं
न
नित्यं
च
यत्
यन्मायामलिनं
यदात्मविमलं
चिद्दर्पणे
राजते
।
तत्सर्वं
स्वविमर्शसंविदुदयाद्
रूपप्रकाशात्मकं
ज्ञात्वा
स्वानुभवाधिरूढमहिमा
विश्वेश्वरत्वं
भज
॥ ८ ॥