Contents
Recognition
Home
Library
Find
Shelf
Settings
←
Leave
Bhairavastava
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
व्याप्तचराचरभावविशेषं
चिन्मयमेकमनन्तमनादिम्
।
भैरवनाथमनाथशरण्यं
त्वन्मयचित्ततया
हृदि
वन्दे
॥ १ ॥
2
▾
Meaning
Keep
त्वन्मयमेतदशेषमिदानीं
भाति
मम
त्वदनुग्रहशक्त्या
।
त्वं
च
महेश
सदैव
ममात्मा
स्वात्ममयं
मम
तेन
समस्तम्
॥ २ ॥
3
▾
Meaning
Keep
स्वात्मनि
विश्वगते
त्वयि
नाथे
तेन
न
संसृतिभीतिकथाऽस्ति
।
सत्स्वपि
दुर्धरदुःखविमोहत्रासविधायिषु
कर्मगणेषु
॥ ३ ॥
4
▾
Meaning
Keep
अन्तक
मां
प्रति
मा
दृशमेनां
क्रोधकरालतमां
विनिधेहि
।
शङ्करसेवनचिन्तनधीरो
भीषणभैरवशक्तिमयोऽस्मि
॥ ४ ॥
5
▾
Meaning
Keep
इत्थमुपोढभवन्मयसंविद्दीधितिदारितभूरितमिस्रः
।
मृत्युयमान्तककर्मपिशाचैर्नाथ
नमोऽस्तु
न
जातु
बिभेमि
॥ ५ ॥
6
▾
Meaning
Keep
प्रोदितसत्यविबोधमरीचिप्रेक्षितविश्वपदार्थसतत्त्वः
।
भावपरामृतनिर्भरपूर्णे
त्वय्यहमात्मनि
निर्वृतिमेमि
॥ ६ ॥
7
▾
Meaning
Keep
मानसगोचरमेति
यदैव
क्लेशदशाऽतनुतापविधात्री
।
नाथ
तदैव
मम
त्वदभेदस्तोत्रपरामृतवृष्टिरुदेति
॥ ७ ॥
8
▾
Meaning
Keep
शङ्कर
सत्यमिदं
व्रतदानस्नानतपो
भवतापविदारि
।
तावकशास्त्रपरामृतचिन्ता
स्यन्दति
चेतसि
निर्वृतिधाराम्
॥ ८ ॥
9
▾
Meaning
Keep
नृत्यति
गायति
हृष्यति
गाढं
संविदियं
मम
भैरवनाथ
।
त्वां
प्रियमाप्य
सुदर्शनमेकं
दुर्लभमन्यजनैः
समयज्ञम्
॥ ९ ॥
10
▾
Meaning
Keep
पौषरसाष्टगकृष्णदशभ्यामभिनवगुप्तः
स्तवमिमकरोत्
।
येन
विभुर्भवमानसतापं
नाशयति
स्वजनस्य
झटिति
दयालुः
॥ १० ॥