Contents
Recognition
Home
Library
Find
Shelf
Settings
←
Leave
Parāprāveśikā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
0
Keep
ओं नमः शिवाय निखिलतत्त्वात्मने
अथ
पराप्रावेशिका
श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता ।
विश्वात्मिकां तदुत्तीर्णां हृदयं परमेशितुः ।
परादिशक्तिरूपेण स्फुरन्तीं संविदं नुमः ॥
1
Keep
इह खलु परमेश्वरः प्रकाशात्मा, प्रकाशश्च विमर्शस्वभावः, विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन च अकृत्रिमाहम् इति विस्फुरणम् ।
यदि निर्विमर्शः स्यात् अनीश्वरो जडश्च प्रसज्येत ।
एष एव च विमर्शः - चित्, चैतन्यं, स्वरसोदितापरावाक्, स्वातन्त्र्यं, परमात्मनो मुख्यमैश्वर्यं, कर्तृत्वं, स्फुरत्ता, सारो, हृदयं, स्पन्दः इत्यादिशब्दैरागमेषूद्धोष्यते अत एव अकृत्रिमाहमिति-सतत्त्वः स्वयंप्रकाशरूपः परमेश्वरः पारमेश्वर्या शक्त्या शिवादि-धरण्यन्तजगदात्मना स्फुरति प्रकाशते च ।
एतदेव अस्य जगतः कर्तृत्वमजडत्वं च, जगतः कार्यत्वमपि एतदधीनप्रकाशत्वमेव, एवंभूतं जगत् प्रकाशरूपात् कर्तुर्महेश्वरादभिन्नमेव, भिन्नवेद्यत्वेऽप्रकाशमानत्वेन प्रकाशनायोगात् न किंचित्स्यात्, अनेन च जगता अस्य भगवतः प्रकाशात्मकं रूपं न कदाचित् तिरोधीयते, एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगत् आत्मनः प्राणभूतं कथं निरोद्धुं शक्नुयात्, कथं च तन्निरुध्य स्वयमवतिष्ठेत, अतश्चास्य वस्तुनः साधकमिदं बाधकमिदं प्रमाणमित्यनुसंधानात्मकसाधकबाधकप्रमातृरूपतया चास्य सद्भावः, तत्सद्भावे किं प्रमाणम्? - इति वस्तुसद्भावमनुमन्यतां, तादृक्स्वभावे किं प्रमाणम्? - इति प्रष्टृरूपतया च पूर्वसिद्धस्य महेश्वरस्य स्वयंप्रकाशत्वं सर्वस्य स्वसंवेदनसिद्धम् ।
किं च प्रमाणमपि यमाश्रित्य प्रमाणं भवति तस्य प्रमाणस्य तदधीनशरीरप्राणनीलसुखादिवेद्यं चातिशय्य सदा भासमानस्य वेदकैकरूपस्य सर्वप्रमितिभाजः सिद्धौ अभिनवार्थप्रकाशस्य प्रमाणवराकस्य कश्चोपयोगः ।
एवं च शब्दराशिमयपूर्णाहन्तापरामर्शसारत्वात् परमशिव एव षट्त्रिंशत्तत्त्वात्मकः प्रपञ्चः ।
षट्त्रिंशत्तत्त्वानि च, - १ शिव २ शक्ति ३ सदाशिव ४ ईश्वर ५ शुद्धविद्या ६ माया ७ कला ८ विद्या ९ राग १० काल ११ नियति १२ पुरुष १३ प्रकृति १४ बुद्धि १५ अहंकार १६ मनः १७ श्रोत्र १८ त्वक् १९ चक्षुः २० जिह्वा २१ घ्राण २२ वाक् २३ पाणि २४ पाद २५ पायु २६ उपस्थ २७ शब्द २८ स्पर्श २९ रूप ३० रस ३१ गन्ध ३२ आकाश ३३ वायु ३४ वह्नि ३५ सलिल ३६ भूमयः, इत्येतानि ।
2
Keep
अथैषां लक्षणानि ।
तत्र शिवतत्त्वं नाम इच्छा-ज्ञान-क्रियात्मककेवलपूर्णानन्दस्वभावरूपः परमशिव एव ।
अस्य जगत् स्रष्टुमिच्छां परिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द एवेच्छाशक्तितत्त्वम् अप्रतिहतेच्छत्वात्, सदेवाङ्कुरायमाणमिदं जगत् स्वात्मनाहन्तयाच्छाद्य स्थितं रूपं सदाशिवतत्त्वम्, अङ्कुरितं जगदहन्तयावृत्य स्थितमीश्वरतत्त्वम्, अहन्तेदन्तयोरैक्यप्रतिपत्तिः शुद्धविद्या, स्वस्वरूपेषु भावेषु भेदप्रथा माया, यदा तु परमेश्वरः पारमेश्वर्या मायाशक्त्या स्वरूपं गृहयित्वा संकुचितग्राहकतामश्नुते तदा पुरुषसंज्ञः, अयमेव मायामोहितः कर्मबन्धनः संसारी, परमेश्वरादभिन्नोऽपि अस्य मोहः परमेश्वरस्य न भवेत् - इन्द्रजालमिव ऐन्द्रजालिकस्य स्वेच्छया संपादितभ्रान्तेः, विद्याभिज्ञापितैश्वर्यस्तु चिद्धनो मुक्तः परमशिव एव ।
अस्य सर्वकर्तृत्वं सर्वज्ञत्वं पूर्णत्वं नित्यत्वं व्यापकत्वं च, शक्तयोऽसंकुचिता अपि संकोचग्रहणेन कला-विद्या-राग-काल-नियतिरूपतया भवन्ति ।
अत्र कलानाम अस्य पुरुषस्य किंचित्कर्तृताहेतुः, विद्या किंचिज्ज्ञत्वकारणम्, रागो विषयेष्वभिष्वङ्गः, कालो हि भावानां भासनाभासनात्मकानां क्रमोऽवच्छेदको भूतादिः, नियतिः ममेदं कर्तव्यं नेदं कर्तव्यम् इति नियमनहेतुः, एतत् पञ्चकम् अस्य स्वरूपावरकत्वात् कञ्चुकमिति उच्यते, महदादि-पृथिव्यन्तानां तत्त्वानां मूलकारणं प्रकृतिः, एषा च सत्त्वरजस्तमसां साम्यावस्था अविभक्तरूपा, निश्चयकारिणी विकल्पप्रतिबिम्बधारिणी बुद्धिः, अहंकारो नाम - ममेदं न ममेदमित्यभिमानसाधनम्, मनः संकल्पसाधनम्, एतत्त्रयमन्तःकरणम् ।
शब्द-स्पर्श-रूप-रस-गन्धात्मकानां विषयाणां क्रमेण ग्रहणसाधनानि श्रोत्र-त्वक्-चक्षुर्जिह्वा-घ्राणानि पञ्च ज्ञानेन्द्रियाणि ।
वचनादान-विहरण-विसर्गानन्दात्मक्रियासाधनानि परिपाठ्या वाक्पाणि-पाद-पायूपस्थानि पञ्च कर्मेन्द्रियाणि ।
शब्द-स्पर्श-रूप-रस-गन्धाः सामान्याकाराः पञ्च तन्मात्राणि ।
आकाशमवकाशप्रदम्, वायुः संजीवनम्, अग्निर्दाहकः पाचकश्च, सलिलमाप्यायकं द्रवरूपं च, भूमिर्धारिका,
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
तथा हृदयबीजस्थं विश्वमेतच्चराचरम् ॥
इत्याम्नायनीत्या पराभट्टारिकारूपे हृदयबीजेऽन्तर्भूतमेतज्जगत् ।
कथं? - यथा घटशरावादीनां मृद्विकाराणां पारमार्थिकं रूपं मृदेव, यथा वा जलादिद्रवजातीनां विचार्यमाणं व्यवस्थितं रूपं जलादिसामान्यमेव भवति, तथा पृथिव्यादिमायान्तानां तत्त्वानां सतत्त्वं मीमांस्यमानं सदित्येव भवेत्, अस्यापि पदस्य निरूप्यमाणं धात्वर्थव्यञ्जकं प्रत्ययांशं विसृज्य प्रकृतिमात्ररूपः सकार एवावशिष्यते, तदन्तर्गतमेकत्रिंशत्तत्वम्, ततः परं शुद्धविद्येश्वर-सदाशिवतत्त्वानि ज्ञान-क्रियासाराणि शक्तिविशेषत्वात् औकारेऽभ्युपगमरूपेऽनुत्तरशक्तिमयेऽन्तर्भूतानि ।
अतः परमूर्ध्वाधः सृष्टिरूपो विसर्जनीयः, एवं-भूतस्य हृदयबीजस्य महामन्त्रात्मको विश्वमयो विश्वोत्तीर्णः परमशिव एवोदयविश्रान्तिस्थानत्वान्निजस्वभावः ।
ईदृशं हृदयबीजं तत्त्वतो यो वेद समाविशति च स परमार्थतो दीक्षितः प्राणान् धारयन् लौकिकवद्वर्तमानो जीवन्मुक्त एव भवति, देहपाते परमशिवभट्टारक एव भवति ॥
Keep
3
इति श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता पराप्रावेशिका समाप्ता ॥