Śivasūtra with Kṣemarāja's Vimarśinī · Unmeṣa 3
Tap a verse for its meaning
- 1
- 2
- 3
- 4
- 5
- 6
- 7
- 8
- 9
- 10
- 11
- 12
- 13
- 14
- 15
- 16
- 17
- 18
- 19
- 20
- 21
- 22
- 23
- 24
- 25
- 26
- 27
- 28
- 29
- 30
- 31
- 32
- 33
- 34
- 35
- 36
- 37
- 38
- 39
- 40
- 41
- 42
- 43
- 44
- 45
46
सेयमागमसंवादस्पन्दसंगतिसुन्दरा । वृत्तिः शैवरहस्यार्थे शिवसूत्रेषु दर्शिता ॥ १ ॥ शिवरहस्यनिदर्शनसंस्रवन्- नवनवामृतसाररसोल्बणाम् । सुकृतिनो रसयन्तु भवच्छिदे स्फुटमिमां शिवसूत्रविमर्शिनीम् ॥ २ ॥ इयमरोचकिनां रुचिवर्धिनी परिणतिं तनुते परमां मतेः । रसनमात्रत एव सुधौघवत्- मृतिजराजननादिभयापहृत् ॥ ३ ॥ देहप्राणसुखादिभिः परिमिताहन्तास्पदैः संवृत- श्चैतन्यं चिनुते निजं न सुमहन्माहेश्वरं स्वं जनः । मध्ये बोधसुधाब्धि विश्वमभितस्तत्फेनपिण्डोपमं यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ॥ ४ ॥ तरत तरसा संसाराब्धिं विधत्त परे पदे पदमविचलं नित्यालोकप्रमोदसुनिर्भरे । विमृशत शिवप्रोक्तं सूत्रं रहस्यसमुज्ज्वलं प्रसभविलसत्सद्युक्त्यान्तः समुत्प्लवदायि तत् ॥ ५ ॥ इति श्रीमन्महामाहेश्वराचार्यवर्याभिनवगुप्तपादपद्मोपजीविश्रीक्षेमराजविरचितायां शिवसूत्रविमर्शिन्यामाणवोपायप्रकाशनं नाम तृतीय उन्मेषः ॥ ३ ॥ समाप्ता चेयं शिवसूत्रविमर्शिनी ॥ कृतिः श्रीक्षेमराजस्य क्षेमायास्तु विमर्शिनाम् । शिवस्वात्मैक्यबोधार्था शिवसूत्रविमर्शिनी ॥