Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 1.2
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
नैवेह किं चनाग्र आसीत् ।
मृत्युनैवेदमावृतमासीदशनायया ।
अशनाया हि मृत्युः ।
तन्मनोऽकुरुतात्मन्वी स्यामिति ।
सोऽर्चन्नचरत् ।
तस्यार्चत आपोऽजायन्त ।
अर्चते वै मे कमभूदिति ।
तदेवार्क्यस्यार्कत्वम् ।
कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद ॥
बृह. १,२.१ ॥
Mantra 2
Keep
आपो वा अर्कः ।
तद्यदपां शर आसीत्तत्समहन्यत ।
सा पृथिव्यभवत् ।
तस्यामश्राम्यत् ।
तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥
बृह.१,२.२ ॥
Mantra 3
Keep
स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् ।
स एष प्राणस्त्रेधाविहितः ।
तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ ।
अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ ।
दक्षिणा चोदीची च पार्श्वे ।
द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः ।
स एषोऽप्सु प्रतिष्ठितः ।
यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥
बृह. १,२.३ ॥
Mantra 4
Keep
सोऽकामयत द्वितीयो म आत्मा जायेतेति ।
स मनसा वाचं मिथुनं समभवदशनाया मृत्युः ।
तद्यद्रेत आसीत्स संवत्सरोऽभवत् ।
न ह पुरा ततः संवत्सर आस ।
तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः ।
तमेतावतः कालस्य परस्तादसृजत ।
तं जातमभिव्याददात् ।
स भाणकरोत् ।
सैव वागभवत् ॥
बृह. १,२.४ ॥
Mantra 5
Keep
स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति ।
स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्च ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् ।
स यद्यदेवासृजत तत्तदत्तुमध्रियत ।
सर्वं वा अत्तीति तददितेरदितित्वम् ।
सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥
बृह. १,२.५ ॥
Mantra 6
Keep
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति ।
सोऽश्राम्यत् ।
स तपोऽतप्यत ।
तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् ।
प्राणा वै यशो वीर्यम् ।
तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत ।
तस्य शरीर एव मन आसीत् ॥
बृह. १,२.६ ॥
Mantra 7
Keep
सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ।
ततोऽश्वः समभवत् ।
यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।
एष ह वा अश्वमेधं वेद य एनमेवं वेद ।
तमनवरुध्यैवामन्यत ।
तं संवत्सरस्य परस्तादात्मन आलभत ।
पशून् देवताभ्यः प्रत्यौहत् ।
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते ।
एष वा अश्वमेधो य एष तपति ।
तस्य संवत्सर आत्मा ।
अयमग्निरर्कः ।
तस्येमे लोका आत्मानः ।
तावेतावर्काश्वमेधौ ।
सो पुनरेकैव देवता भवति मृत्युरेव ।
अप पुनर्मृत्युं जयति ।
नैनं मृत्युराप्नोति ।
मृत्युरस्यात्मा भवति ।
सर्वमायुरेति ।
एतासां देवतानामेको भवति ॥
बृह. १,२.७ ॥
Previous
←
Bṛhadāraṇyaka 1.1
Next
Bṛhadāraṇyaka 1.3
→