Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 1.4
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(पुरुषविधब्राह्मणम् /आत्मब्राह्मणम् /सृष्टिब्राह्मणम् ) आत्मैवेदमग्र आसीत्पुरुषविधः ।
सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् ।
सोऽहमस्मीत्यग्रे व्याहरत् ।
ततोऽहंनामाभवत् ।
तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति ।
स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः ।
ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥
बृह. १,४.१ ॥
Mantra 2
Keep
सोऽबिभेत्तस्मादेकाकी बिभेति ।
स हायमीक्षां चक्रे, यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति ।
तत एवास्य भयं वीयाय ।
कस्माद्ध्यभेष्यत् ।
द्वितीयाद्वै भयं भवति ॥
बृह. १,४.२ ॥
Mantra 3
Keep
स वै नैव रेमे ।
तस्मादेकाकी न रमते ।
स द्वितीयमैच्छत् ।
स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ ।
स इममेवात्मानं द्वेधापातयत् ।
ततः पतिश्च पत्नी चाभवताम् ।
तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः ।
तस्मादयमाकाशः स्त्रिया पूर्यत एव ।
तां समभवत् ।
ततो मनुष्या अजायन्त ॥
बृह. १,४.३ ॥
Mantra 4
Keep
सो हेयमीक्षां चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति ।
हन्त तिरोऽसानीति ।
सा गौरभवद्वृषभ इतरः ।
तां समेवाभवत् ।
ततो गावोऽजायन्त ।
वडवेतराभवदश्ववृष इतरः ।
गर्दभीतरा गर्दभ इतरः ।
तां समेवाभवत् ।
तत एकशफमजायत ।
अजेतराभवद्बस्त इतरः ।
अविरितरा मेष इतरः ।
तां समेवाभवत् ।
ततोऽजावयो ऽजायन्त ।
एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥
बृह. १,४.४ ॥
Mantra 5
Keep
सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ।
ततः सृष्टिरभवत् ।
सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥
बृह. १,४.५ ॥
Mantra 6
Keep
अथेत्यभ्यमन्थत् ।
स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत ।
तस्मादेतदुभयमलोमकमन्तरतः ।
अलोमका हि योनिरन्तरतः ।
तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः ।
एष उ ह्येव सर्वे देवाः ।
अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत ।
तदु सोम ।
एतावद्वा इदं सर्वमन्नं चैवान्नादश्च ।
सोम एवान्नमग्निरन्नादः ।
सैषा ब्रह्मणोऽतिसृष्टिः ।
यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् ।
अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥
बृह. १,४.६ ॥
Mantra 7
Keep
तद्धेदं तर्ह्यव्याकृतमासीत् ।
तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति ।
तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति ।
स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये ।
तं न पश्यन्ति ।
अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति ।
वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः ।
तान्यस्यैतानि कर्मनामान्येव ।
स योऽत एकैकमुपास्ते न स वेद ।
अकृत्स्नो ह्येषोऽत एकैकेन भवति ।
आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवन्ति ।
तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा ।
अनेन ह्येतत्सर्वं वेद ।
यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥
बृह. १,४.७ ॥
Mantra 8
Keep
तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा ।
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् ।
आत्मानमेव प्रियमुपासीत ।
स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥
बृह. १,४.८ ॥
Mantra 9
Keep
तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते ।
किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥
बृह. १,४.९ ॥
Mantra 10
Keep
ब्रह्म वा इदमग्र आसीत् ।
तदात्मानमेवावेत् ।
अहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत् ।
तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् ।
तथर्षीनाम् ।
तथा मनुष्याणाम् ।
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ।
तस्य ह न देवाश्चनाभूत्या ईशते ।
आत्मा ह्येषां स भवति ।
अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ।
यथा पशुरेवं स देवानाम् ।
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति ।
एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु ।
तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥
बृह. १,४.१० ॥
Mantra 11
Keep
ब्रह्म वा इदमग्र आसीदेकमेव ।
तदेकं सन्न व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति ।
तस्मात्क्षत्रात्परं नास्ति ।
तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये ।
क्षत्र एव तद्यशो दधाति ।
सैषा क्षत्रस्य योनिर्यद्ब्रह्म ।
तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् ।
य उ एनं हिनस्ति स्वां स योनिमृच्छति ।
स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥
बृह. १,४.११ ॥
Mantra 12
Keep
स नैव व्यभवत् ।
स विशमसृजत ।
यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥
बृह. १,४.१२ ॥
Mantra 13
Keep
स नैव व्यभवत् ।
स शौद्रं वर्णमसृजत पूषणम् ।
इयं वै पूषा ।
इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥
बृह. १,४.१३ ॥
Mantra 14
Keep
स नैव व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत धर्मम् ।
तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः ।
तस्माद्धर्मात्परं नास्ति ।
अथो अबलीयान् बलीयांसमाशंसते धर्मेण ।
यथा राज्ञैवम् ।
यो वै स धर्मः सत्यं वै तत् ।
तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति ।
धर्मं वा वदन्तं सत्यं वदतीति ।
एतद्ध्येवैतदुभयं भवति ॥
बृह. १,४.१४ ॥
Mantra 15
Keep
तदेतद्ब्रह्म क्षत्रं विट्शूद्रः ।
तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु ।
एताभ्यां हि रूपाभ्यां ब्रह्माभवत् ।
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् ।
यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव ।
आत्मानमेव लोकमुपासीत ।
स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते ।
अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥
बृह. १,४.१५ ॥
Mantra 16
Keep
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः ।
स यज्जुहोति यद्यजते तेन देवानां लोकः ।
अथ यदनुब्रूते तेन ऋषीणाम् ।
अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् ।
अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् ।
अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् ।
यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः ।
यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् ।
एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति ।
तद्वा एतद्विदितं मीमांसितम् ॥
बृह. १,४.१६ ॥
Mantra 17
Keep
आत्मैवेदमग्र आसीदेक एव ।
सोऽकामयत जाया मे स्यादथ प्रजायेय ।
अथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
एतावान् वै कामः ।
नेच्छंश्चनातो भूयो विन्देत् ।
तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते ।
तस्यो कृत्स्नता ।
मन एवास्यात्मा ।
वाग्जाया ।
प्राणः प्रजा ।
चक्षुर्मानुषं वित्तम् ।
चक्षुषा हि तद्विन्दते ।
श्रोत्रं दैवम् ।
श्रोत्रेण हि तच्छृणोति ।
आत्मैवास्य कर्म ।
आत्मना हि कर्म करोति ।
स एष पाङ्क्तो यज्ञः ।
पाङ्क्तः पशुः ।
पाङ्क्तः पुरुषः ।
पाङ्क्तमिदं सर्वं यदिदं किञ्च ।
तदिदं सर्वमाप्नोति य एवं वेद ॥
बृह. १,४.१७ ॥
Previous
←
Bṛhadāraṇyaka 1.3
Next
Bṛhadāraṇyaka 1.5
→