Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 3.8
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(वाचक्नवीब्राह्मणं, अक्षरब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम्) अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि ।
तौ चेन्मे विवक्ष्यति ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
पृच्छ गार्गीति ॥
बृह. ३,८.१ ॥
Mantra 2
Keep
सा होवाच अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।
तौ मे ब्रूहीति ।
पृच्छ गार्गीति ॥
३,८.२ ॥
Mantra 3
Keep
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥
३,८.३ ॥
Mantra 4
Keep
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥
बृह. ३,८.४ ॥
Mantra 5
Keep
सा होवच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥
३,८.५ ॥
Mantra 6
Keep
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥
३,८.६ ॥
Mantra 7
Keep
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति ।
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥
३,८.७ ॥
Mantra 8
Keep
न तदश्नाति किं चन ।
न तदश्नाति कश्चन ॥
बृह. ३,८.८ ॥
Mantra 9
Keep
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति ।
एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु ।
एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥
३,८.९ ॥
Mantra 10
Keep
वा अक्षरस्य् यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरमविदित्वा गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।
अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥
बृह. ३,८.१० ॥
Mantra 11
Keep
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ।
नान्यदतोऽस्ति द्रष्टृ ।
नान्यदतोऽस्ति श्रोतृ ।
नान्यदतोऽस्ति मन्तृ ।
नान्यदतोऽस्ति विज्ञातृ ।
एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ॥
३,८.११ ॥
Mantra 12
Keep
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्येध्वम् ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
ततो ह वाचक्नव्युपरराम ॥
बृह. ३,८.१२ ॥
Previous
←
Bṛhadāraṇyaka 3.7
Next
Bṛhadāraṇyaka 3.9
→