Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 4.5
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(याज्ञवल्क्यमैत्रेयीसंवादब्राह्मणम् ) अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च ।
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव ।
स्त्रीप्रज्ञैव तर्हि कात्यायनी ।
अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥
४,५.१ ॥
Mantra 2
Keep
मैत्रेयीति होवाच याज्ञवल्क्यः ।
प्रव्रजिष्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कत्यायन्यान्तं करवाणीति ॥
बृह. ४,५.२ ॥
Mantra 3
Keep
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितम् ।
तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥
४,५.३ ॥
Mantra 4
Keep
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥
४,५.४ ॥
Mantra 5
Keep
स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधत् ।
हन्त तर्हि ।
भवत्येतद्व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥
बृह. ४,५.५ ॥
Mantra 6
Keep
स होवाच ।
न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥
बृह. ४,५.६ ॥
Mantra 7
Keep
ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥
४,५.७ ॥
Mantra 8
Keep
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥
४,५.८ ॥
Mantra 9
Keep
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥
४,५.९ ॥
Mantra 10
Keep
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥
बृह. ४,५.१० ॥
Mantra 11
Keep
स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि ।
अस्यैवैतानि सर्वाणि निश्वसितानि ॥
बृह. ४,५.११ ॥
Mantra 12
Keep
स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥
४,५.१२ ॥
Mantra 13
Keep
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव ।
एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥
बृह. ४,५.१३ ॥
Mantra 14
Keep
सा होवाच मैत्रेयी अत्रैव मा भगवान्मोहान्तमापीपदत् ।
न वा अहमिमं विजानामीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥
४,५.१४ ॥
Mantra 15
Keep
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते न रिष्यति ।
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि ।
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥
बृह. ४,५.१५ ॥
Previous
←
Bṛhadāraṇyaka 4.4
Next
Bṛhadāraṇyaka 4.6
→