Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 5.10
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम् ) यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति ।
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स आदित्यमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा लम्बरस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स चन्द्रमसमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा दुन्दुभेः खम् ।
तेन स ऊर्ध्व आक्रमते ।
स लोकमागच्छत्यशोकमहिमम् ।
तस्मिन् वसति शाश्वतीः समाः ॥
बृह. ५,१०.१ ॥
Previous
←
Bṛhadāraṇyaka 5.9
Next
Bṛhadāraṇyaka 5.11
→