Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 5.2
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(दमदानदयेति त्रिकोपदेशब्राह्मणम् ) त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः ।
देवा मनुष्या असुराः ।
उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दाम्यतेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥
बृह. ५,२.१ ॥
Mantra 2
Keep
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दत्तेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥
५,२.२ ॥
Mantra 3
Keep
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दयध्वमिति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ।
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति ।
दम्यत दत्त दयध्वमिति ।
तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥
बृह. ५,२.३ ॥
Previous
←
Bṛhadāraṇyaka 5.1
Next
Bṛhadāraṇyaka 5.3
→