Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhadāraṇyaka · Bṛhadāraṇyaka 5.5
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
(सत्यस्य ब्रह्मणः स्तुतिब्राह्मणम् ) आप एवेदमग्र आसुः ।
ता आपः सत्यमसृजन्त ।
सत्यं ब्रह्म ।
ब्रह्म प्रजापतिम् ।
प्रजापतिर्देवान् ।
ते देवाः सत्यमेवोपासते ।
तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् ।
तीत्येकमक्षरम् ।
यमित्येकमक्षरम् ।
प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् ।
तदेतदनृतमुभयतः सत्येन परिगृहीतम् ।
सत्यभूयमेव भवति ।
नैवंविद्वांसमनृतं हिनस्ति ॥
बृह. ५,५.१ ॥
Mantra 2
Keep
तद्यत्तत्सत्यमसौ स आदित्यः ।
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ ।
रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् ।
स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति ।
नैनमेते रश्मयः प्रत्यायन्ति ॥
५,५.२ ॥
Mantra 3
Keep
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहरिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥
बृह. ५,५.३ ॥
Mantra 4
Keep
योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥
५,५.४ ॥
Previous
←
Bṛhadāraṇyaka 5.4
Next
Bṛhadāraṇyaka 5.6
→