Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 1.7
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढंसाम गीयते ।
वागेव सा प्राणोऽमस्तत्साम ॥ १.७.१ ॥
Mantra 2
Keep
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढंसाम तस्मादृच्यध्यूढंसाम गीयते ।
चक्षुरेव सात्मामस्तत्साम ॥ १.७.२ ॥
Mantra 3
Keep
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढंसाम तस्मादृच्यध्यूढंसाम गीयते ।
श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १.७.३ ॥
Mantra 4
Keep
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढंसाम तस्मादृच्यध्यूढंसाम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ १.७.४ ॥
Mantra 5
Keep
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १.७.५ ॥
Mantra 6
Keep
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ १.७.६ ॥
Mantra 7
Keep
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च ॥ १.७.७ ॥
Mantra 8
Keep
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १.७.८ ॥
Mantra 9
Keep
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ १.७.९ ॥
Previous
←
Chāndogya 1.6
Next
Chāndogya 1.8
→