Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 2.24
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनं रुद्राणां माध्यंदिनं सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ २.२४.१ ॥
Mantra 2
Keep
क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥ २.२४.२ ॥
Mantra 3
Keep
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं सामाभिगायति ॥ २.२४.३ ॥
Mantra 4
Keep
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयं रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २.२४.४ ॥
Mantra 5
Keep
अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ २.२४.५ ॥
Mantra 6
Keep
अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ २.२४.६ ॥
Mantra 7
Keep
पुरा माध्यंदिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रंसामाभिगायति ॥ २.२४.७ ॥
Mantra 8
Keep
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २.२४.८ ॥
Mantra 9
Keep
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ २.२४.९ ॥
Mantra 10
Keep
अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यंदिनंसवनंसम्प्रयच्छन्ति ॥ २.२४.१० ॥
Mantra 11
Keep
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यंस वैश्वदेवं सामाभिगायति ॥ २.२४.११ ॥
Mantra 12
Keep
लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयं स्वारा ३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २.२४.१२ ॥
Mantra 13
Keep
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयंसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ॥ २.२४.१३ ॥
Mantra 14
Keep
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दत ॥ २.२४.१४ ॥
Mantra 15
Keep
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २.२४.१५ ॥
Mantra 16
Keep
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ २.२४.१६ ॥
Previous
←
Chāndogya 2.23
Next
Chāndogya 3.1
→