Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 3.17
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ ३.१७.१ ॥
Mantra 2
Keep
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३.१७.२ ॥
Mantra 3
Keep
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३.१७.३ ॥
Mantra 4
Keep
अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ३.१७.४ ॥
Mantra 5
Keep
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ ३.१७.५ ॥
Mantra 6
Keep
तद्धैतद्घोर् आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३.१७.६ ॥
Mantra 7
Keep
आदित्प्रत्नस्य रेतसः ज्योतिः पश्यन्ति वासरम्; परो यदिध्यते दिवि ॥ ३.१७.७ ॥
Mantra 8
Keep
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरंस्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३.१७.८ ॥
Previous
←
Chāndogya 3.16
Next
Chāndogya 3.18
→