Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 3.5
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ ३.५.१ ॥
Mantra 2
Keep
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यंरसोऽजायत ॥ ३.५.२ ॥
Mantra 3
Keep
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३.५.३ ॥
Mantra 4
Keep
ते वा एते रसानांरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ३.५.४ ॥
Previous
←
Chāndogya 3.4
Next
Chāndogya 3.6
→