Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 4.16
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदं सर्वं पुनाति यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ ४.१६.१ ॥
Mantra 2
Keep
तयोरन्यतरां मनसा संस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतरांस यत्रौपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४.१६.२ ॥
Mantra 3
Keep
अन्यतरामेव वर्तनीं संस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४.१६.३ ॥
Mantra 4
Keep
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४.१६.४ ॥
Mantra 5
Keep
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४.१६.५ ॥
Previous
←
Chāndogya 4.15
Next
Chāndogya 4.17
→