Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 6.6
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
दध्नः सोम्य मथ्यमानस्य योऽणिमा स उर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ ६.६.१ ॥
Mantra 2
Keep
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति तन्मनो भवति ॥ ६.६.२ ॥
Mantra 3
Keep
अपांसोम्य पीयमानानां योऽणिमा स उर्ध्वः समुदीषति सा प्राणो भवति ॥ ६.६.३ ॥
Mantra 4
Keep
तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति सा वाग्भवति ॥ ६.६.४ ॥
Mantra 5
Keep
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.६.६ ॥
Previous
←
Chāndogya 6.5
Next
Chāndogya 6.7
→