Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Chāndogya · Chāndogya 8.4
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८.४.१ ॥
Mantra 2
Keep
तस्माद्वा एतं सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतं सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८.४.२ ॥
Mantra 3
Keep
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८.४.३ ॥
Previous
←
Chāndogya 8.3
Next
Chāndogya 8.5
→