The Mukhya Upaniṣads

Maitrī · Prapāṭhaka 6 · Maitrī 6.1

Passage 32

तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वे देवाः सर्वाणि च भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति अथ यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा निश्चरन्त्येवं वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसा इतिहासः पुराणम् विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि विश्वा भूतानि ॥६.३२ ॥

In plain words

From this Self all the breaths, all the worlds, all the Vedas, all the gods and all beings go forth. Its secret name is the real of the real. And as from a fire laid with damp fuel separate smokes go out, so from this great being has been breathed out the Ṛgveda, the Yajurveda, the Sāmaveda, the hymns of the Atharvans and Aṅgirases, story and ancient lore, the sciences, the Upaniṣads, the verses, the aphorisms, the explanations and the commentaries. All these beings are his.