Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 1.11
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति ।
सत्यं वद ।
धर्मं चर ।
स्वाध्यायान्मा प्रमदः ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
सत्यान्न प्रमदितव्यम् ।
धर्मान्न प्रमदितव्यम् ।
कुशलान्न प्रमदितव्यम् ।
भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ।
देवपितृकार्याभ्यां न प्रमदितव्यम् ॥ १ ॥
Mantra 2
Keep
मातृदेवो भव ।
पितृदेवो भव ।
आचार्यदेवो भव ।
अतिथिदेवो भव ।
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।
नो इतराणि ।
यान्यस्माकꣳ सुचरितानि तानि त्वयोपास्यानि ।
नो इतराणि ॥ २ ॥
Mantra 3
Keep
ये के चास्मच्छ्रेयाँसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् ।
श्रद्धया देयम् ।
अश्रद्धयाऽदेयम् ।
श्रिया देयम् ।
ह्रिया देयम् ।
भिया देयम् ।
संविदा देयम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥
Mantra 4
Keep
ये यत्र ब्राह्मणाः संमर्शिनः ।
युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः ।
यथा ते तत्र वर्तेरन् ।
तथा वर्तेथाः ।
अथाभ्याख्यातेषु ।
ये तत्र ब्राह्मणाः संमर्शिनः ।
युक्ता आयुक्ताः ।
अलूक्षा धर्मकायाः स्युः ।
यथा ते तेषु वर्तेरन् ।
तथा तेषु वर्तेथाः ।
एष आदेशः ।
एष उपदेशः ।
एषा वेदोपनिषत् ।
एतदनुशासनम् ।
एवमुपासितव्यम् ।
एवमु चैतदुपास्यम् ॥ ४ ॥
Previous
←
Taittirīya 1.10
Next
Taittirīya 1.12
→