Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 3.1
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
भृगुर्वै वारुणिः ।
वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति ।
तस्मा एतत्प्रोवाच ।
अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।
तँ होवाच ।
यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति ।
तद्विजिज्ञासस्व ।
तद् ब्रह्मेति ।
स तपोऽतप्यत ।
स तपस्तप्त्वा ॥ १ ॥
Previous
←
Taittirīya 2.9
Next
Taittirīya 3.2
→