Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 3.3
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
प्राणो ब्रह्मेति व्यजानात् ।
प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते ।
प्राणेन जातानि जीवन्ति ।
प्राणं प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति ।
तँ होवाच ।
तपसा ब्रह्म विजिज्ञासस्व ।
तपो ब्रह्मेति ।
स तपोऽतप्यत ।
स तपस्तप्त्वा ॥ १ ॥
Previous
←
Taittirīya 3.2
Next
Taittirīya 3.4
→