Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Taittirīya · Taittirīya 3.6
Tap a verse for its meaning
IAST
Devanāgarī
Words separated
Meaning
Continuous
Mantra 1
Keep
॥ षष्ठोऽनुवकः ॥
आनन्दो ब्रह्मेति व्यजानात् ।
आनन्दाध्येव खल्विमानि भूतानि जायन्ते ।
आनन्देन जातानि जीवन्ति ।
आनन्दं प्रयन्त्यभिसंविशन्तीति ।
सैषा भार्गवी वारुणी विद्या ।
परमे व्योमन्प्रतिष्ठिता ।
स य एवं वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति ।
महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥
Previous
←
Taittirīya 3.5
Next
Taittirīya 3.7
→