भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।तासामुह स्मैतां चतुर्थीं माहाचमस्यः प्रवेदयते ।मह इति ।तद् ब्रह्म ।स आत्मा ।अङ्गान्यन्या देवताः ।भूरिति वा अयं लोकः ।भुव इत्यन्तरिक्षम् ।सुवरित्यसौ लोकः ॥ १ ॥
In plain words
Bhūḥ, bhuvaḥ, suvaḥ — these indeed are the three utterances. Besides them, Māhācamasya made known a fourth: mahaḥ. That is Brahman, that is the self; the other deities are its limbs. Bhūḥ is this world, bhuvaḥ is the middle region, suvaḥ is that world yonder,