Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Jñānakarmasannyāsayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
इमं
विवस्वते
योगं
प्रोक्तवानहमव्ययम्
विवस्वान्
मनवे
प्राह
मनुरिक्ष्वाकवेऽब्रवीत्
2
▾
Meaning
Keep
एवं
परम्पराप्राप्तमिमं
राजर्षयो
विदुः
स
कालेनेह
महता
योगो
नष्टः
परन्तप
3
▾
Meaning
Keep
स
एवायं
मया
तेऽद्य
योगः
प्रोक्तः
पुरातनः
भक्तोऽसि
मे
सखा
चेति
रहस्यं
ह्येतदुत्तमम्
4
▾
Meaning
Keep
अपरं
भवतो
जन्म
परं
जन्म
विवस्वतः
कथमेतद्
विजानीयां
त्वमादौ
प्रोक्तवानिति
5
▾
Meaning
Keep
बहूनि
मे
व्यतीतानि
जन्मानि
तव
चार्जुन
तान्यहं
वेद
सर्वाणि
न
त्वं
वेत्थ
परन्तप
6
▾
Meaning
Keep
अजोऽपि
सन्नव्ययात्मा
भूतानामीश्वरोऽपि
सन्
प्रकृतिं
स्वामधिष्ठाय
सम्भवाम्यात्ममायया
7
▾
Meaning
Keep
यदा
यदा
हि
धर्मस्य
ग्लानिर्भवति
भारत
अभ्युत्थानमधर्मस्य
तदाऽऽत्मानं
सृजाम्यहम्
8
▾
Meaning
Keep
परित्राणाय
साधूनां
विनाशाय
च
दुष्कृताम्
धर्मसंस्थापनार्थाय
सम्भवामि
युगे
युगे
9
▾
Meaning
Keep
जन्म
कर्म
च
मे
दिव्यमेवं
यो
वेत्ति
तत्त्वतः
त्यक्त्वा
देहं
पुनर्जन्म
नैति
मामेति
सोऽर्जुन
10
▾
Meaning
Keep
वीतरागभयक्रोधा
मन्मया
मामुपाश्रिताः
बहवो
ज्ञानतपसा
पूता
मद्भावमागताः
11
▾
Meaning
Keep
ये
यथा
मां
प्रपद्यन्ते
तांस्तथैव
भजाम्यहम्
मम
वर्त्मानुवर्तन्ते
मनुष्याः
पार्थ
सर्वशः
12
▾
Meaning
Keep
काङ्क्षन्तः
कर्मणां
सिद्धिं
यजन्त
इह
देवताः
क्षिप्रं
हि
मानुषे
लोके
सिद्धिर्भवति
कर्मजा
13
▾
Meaning
Keep
चातुर्वर्ण्यं
मया
सृष्टं
गुणकर्मविभागशः
तस्य
कर्तारमपि
मां
विद्ध्यकर्तारमव्ययम्
14
▾
Meaning
Keep
न
मां
कर्माणि
लिम्पन्ति
न
मे
कर्मफले
स्पृहा
इति
मां
योऽभिजानाति
कर्मभिर्न
स
बध्यते
15
▾
Meaning
Keep
एवं
ज्ञात्वा
कृतं
कर्म
पूर्वैरपि
मुमुक्षुभिः
कुरु
कर्मैव
तस्मात्
त्वं
पूर्वैः
पूर्वतरं
कृतम्
16
▾
Meaning
Keep
किं
कर्म
किमकर्मेति
कवयोऽप्यत्र
मोहिताः
तत्
ते
कर्म
प्रवक्ष्यामि
यज्ज्ञात्वा
मोक्ष्यसेऽशुभात्
17
▾
Meaning
Keep
कर्मणो
ह्यपि
बोद्धव्यं
बोद्धव्यं
च
विकर्मणः
अकर्मणश्च
बोद्धव्यं
गहना
कर्मणो
गतिः
18
▾
Meaning
Keep
कर्मण्यकर्म
यः
पश्येदकर्मणि
च
कर्म
यः
स
बुद्धिमान्
मनुष्येषु
स
युक्तः
कृत्स्नकर्मकृत्
19
▾
Meaning
Keep
यस्य
सर्वे
समारम्भाः
कामसङ्कल्पवर्जिताः
ज्ञानाग्निदग्धकर्माणं
तमाहुः
पण्डितं
बुधाः
20
▾
Meaning
Keep
त्यक्त्वा
कर्मफलासङ्गं
नित्यतृप्तो
निराश्रयः
कर्मण्यभिप्रवृत्तोऽपि
नैव
किञ्चित्
करोति
सः
21
▾
Meaning
Keep
निराशीर्यतचित्तात्मा
त्यक्तसर्वपरिग्रहः
शारीरं
केवलं
कर्म
कुर्वन्नाऽऽप्नोति
किल्बिषम्
22
▾
Meaning
Keep
यदृच्छालाभसन्तुष्टो
द्वन्द्वातीतो
विमत्सरः
समः
सिद्धावसिद्धौ
च
कृत्वाऽपि
न
निबध्यते
23
▾
Meaning
Keep
गतसङ्गस्य
मुक्तस्य
ज्ञानावस्थितचेतसः
यज्ञायाऽऽचरतः
कर्म
समग्रं
प्रविलीयते
24
▾
Meaning
Keep
ब्रह्मार्पणं
ब्रह्म
हविर्ब्रह्माग्नौ
ब्रह्मणा
हुतम्
ब्रह्मैव
तेन
गन्तव्यं
ब्रह्मकर्मसमाधिना
25
▾
Meaning
Keep
दैवमेवापरे
यज्ञं
योगिनः
पर्युपासते
ब्रह्माग्नावपरे
यज्ञं
यज्ञेनैवोपजुह्वति
26
▾
Meaning
Keep
श्रोत्रादीनीन्द्रियाण्यन्ये
संयमाग्निषु
जुह्वति
शब्दादीन्
विषयानन्य
इन्द्रियाग्निषु
जुह्वति
27
▾
Meaning
Keep
सर्वाणीन्द्रियकर्माणि
प्राणकर्माणि
चापरे
आत्मसंयमयोगाग्नौ
जुह्वति
ज्ञानदीपिते
28
▾
Meaning
Keep
द्रव्ययज्ञास्तपोयज्ञा
योगयज्ञास्तथाऽपरे
स्वाध्यायज्ञानयज्ञाश्च
यतयः
संशितव्रताः
29
▾
Meaning
Keep
अपाने
जुह्वति
प्राणं
प्राणेऽपानं
तथाऽपरे
प्राणापानगती
रुद्ध्वा
प्राणायामपरायणाः
30
▾
Meaning
Keep
अपरे
नियताहाराः
प्राणान्
प्राणेषु
जुह्वति
सर्वेऽप्येते
यज्ञविदो
यज्ञक्षपितकल्मषाः
31
▾
Meaning
Keep
यज्ञशिष्टामृतभुजो
यान्ति
ब्रह्म
सनातनम्
नायं
लोकोऽस्त्ययज्ञस्य
कुतोऽन्यः
कुरुसत्तम
32
▾
Meaning
Keep
एवं
बहुविधा
यज्ञा
वितता
ब्रह्मणो
मुखे
कर्मजान्
विद्धि
तान्
सर्वानेवं
ज्ञात्वा
विमोक्ष्यसे
33
▾
Meaning
Keep
श्रेयान्
द्रव्यमयाद्
यज्ञाज्ज्ञानयज्ञः
परन्तप
सर्वं
कर्माखिलं
पार्थ
ज्ञाने
परिसमाप्यते
34
▾
Meaning
Keep
तद्
विद्धि
प्रणिपातेन
परिप्रश्नेन
सेवया
उपदेक्ष्यन्ति
ते
ज्ञानं
ज्ञानिनस्तत्त्वदर्शिनः
35
▾
Meaning
Keep
यज्ज्ञात्वा
न
पुनर्मोहमेवं
यास्यसि
पाण्डव
येन
भूतान्यशेषेण
द्रक्ष्यस्यात्मन्यथो
मयि
36
▾
Meaning
Keep
अपि
चेदसि
पापेभ्यः
सर्वेभ्यः
पापकृत्तमः
सर्वं
ज्ञानप्लवेनैव
वृजिनं
सन्तरिष्यसि
37
▾
Meaning
Keep
यथैधांसि
समिद्धोऽग्निर्भस्मसात्
कुरुतेऽर्जुन
ज्ञानाग्निः
सर्वकर्माणि
भस्मसात्
कुरुते
तथा
38
▾
Meaning
Keep
न
हि
ज्ञानेन
सदृशं
पवित्रमिह
विद्यते
तत्
स्वयं
योगसंसिद्धः
कालेनाऽऽत्मनि
विन्दति
39
▾
Meaning
Keep
श्रद्धावाँल्लभते
ज्ञानं
तत्परः
संयतेन्द्रियः
ज्ञानं
लब्ध्वा
परां
शान्तिमचिरेणाधिगच्छति
40
▾
Meaning
Keep
अज्ञश्चाश्रद्दधानश्च
संशयात्मा
विनश्यति
नायं
लोकोऽस्ति
न
परो
न
सुखं
संशयात्मनः
41
▾
Meaning
Keep
योगसन्न्यस्तकर्माणं
ज्ञानसञ्छिन्नसंशयम्
आत्मवन्तं
न
कर्माणि
निबध्नन्ति
धनञ्जय
42
▾
Meaning
Keep
तस्मादज्ञानसम्भूतं
हृत्स्थं
ज्ञानासिनाऽऽत्मनः
छित्त्वैनं
संशयं
योगमातिष्ठोत्तिष्ठ
भारत
Previous
←
Karmayogaḥ
Next
Karmasannyāsayogaḥ
→