Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Karmasannyāsayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
सन्न्यासं
कर्मणां
कृष्ण
पुनर्योगं
च
शंससि
यच्छ्रेय
एतयोरेकं
तन्मे
ब्रूहि
सुनिश्चितम्
2
▾
Meaning
Keep
सन्न्यासः
कर्मयोगश्च
निःश्रेयसकरावुभौ
तयोस्तु
कर्मसन्न्यासात्कर्मयोगो
विशिष्यते
3
▾
Meaning
Keep
ज्ञेयः
स
नित्यसन्न्यासी
यो
न
द्वेष्टि
न
काङ्क्षति
निर्द्वन्द्वो
हि
महाबाहो
सुखं
बन्धात्
प्रमुच्यते
4
▾
Meaning
Keep
साङ्ख्ययोगौ
पृथग्
बालाः
प्रवदन्ति
न
पण्डिताः
एकमप्यास्थितः
सम्यगुभयोर्विन्दते
फलम्
5
▾
Meaning
Keep
यत्
साङ्ख्यैः
प्राप्यते
स्थानं
तद्
योगैरपि
गम्यते
एकं
साङ्ख्यं
च
योगं
च
यः
पश्यति
स
पश्यति
6
▾
Meaning
Keep
सन्न्यासस्तु
महाबाहो
दुःखमाप्तुमयोगतः
योगयुक्तो
मुनिर्ब्रह्म
नचिरेणाधिगच्छति
7
▾
Meaning
Keep
योगयुक्तो
विशुद्धात्मा
विजितात्मा
जितेन्द्रियः
सर्वभूतात्मभूतात्मा
कुर्वन्नपि
न
लिप्यते
8
▾
Meaning
Keep
नैव
किञ्चित्
करोमीति
युक्तो
मन्येत
तत्त्ववित्
पश्यञ्शृण्वन्
स्पृशञ्जिघ्रन्नश्नन्
गच्छन्
स्वपन्
श्वसन्
9
▾
Meaning
Keep
प्रलपन्
विसृजन्
गृह्णन्नुन्मिषन्निमिषन्नपि
इन्द्रियाणीन्द्रियार्थेषु
वर्तन्त
इति
धारयन्
10
▾
Meaning
Keep
ब्रह्मण्याधाय
कर्माणि
सङ्गं
त्यक्त्वा
करोति
यः
लिप्यते
न
स
पापेन
पद्मपत्रमिवाम्भसा
11
▾
Meaning
Keep
कायेन
मनसा
बुद्ध्या
केवलैरिन्द्रियैरपि
योगिनः
कर्म
कुर्वन्ति
सङ्गं
त्यक्त्वाऽऽत्मशुद्धये
12
▾
Meaning
Keep
युक्तः
कर्मफलं
त्यक्त्वा
शान्तिमाप्नोति
नैष्ठिकीम्
अयुक्तः
कामकारेण
फले
सक्तो
निबध्यते
13
▾
Meaning
Keep
सर्वकर्माणि
मनसा
सन्न्यस्याऽऽस्ते
सुखं
वशी
नवद्वारे
पुरे
देही
नैव
कुर्वन्न
कारयन्
14
▾
Meaning
Keep
न
कर्तृत्वं
न
कर्माणि
लोकस्य
सृजति
प्रभुः
न
कर्मफलसंयोगं
स्वभावस्तु
प्रवर्तते
15
▾
Meaning
Keep
नाऽऽदत्ते
कस्यचित्
पापं
न
चैव
सुकृतं
विभुः
अज्ञानेनाऽऽवृतं
ज्ञानं
तेन
मुह्यन्ति
जन्तवः
16
▾
Meaning
Keep
ज्ञानेन
तु
तदज्ञानं
येषां
नाशितमात्मनः
तेषामादित्यवज्ज्ञानं
प्रकाशयति
तत्परम्
17
▾
Meaning
Keep
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः
18
▾
Meaning
Keep
विद्याविनयसम्पन्ने
ब्राह्मणे
गवि
हस्तिनि
शुनि
चैव
श्वपाके
च
पण्डिताः
समदर्शिनः
19
▾
Meaning
Keep
इहैव
तैर्जितः
सर्गो
येषां
साम्ये
स्थितं
मनः
निर्दोषं
हि
समं
ब्रह्म
तस्माद्
ब्रह्मणि
ते
स्थिताः
20
▾
Meaning
Keep
न
प्रहृष्येत्
प्रियं
प्राप्य
नोद्विजेत्
प्राप्य
चाप्रियम्
स्थिरबुद्धिरसम्मूढो
ब्रह्मविद्
ब्रह्मणि
स्थितः
21
▾
Meaning
Keep
बाह्यस्पर्शेष्वसक्तात्मा
विन्दत्यात्मनि
यत्
सुखम्
स
ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते
22
▾
Meaning
Keep
ये
हि
संस्पर्शजा
भोगा
दुःखयोनय
एव
ते
आद्यन्तवन्तः
कौन्तेय
न
तेषु
रमते
बुधः
23
▾
Meaning
Keep
शक्नोतीहैव
यः
सोढुं
प्राक्
शरीरविमोक्षणात्
कामक्रोधोद्भवं
वेगं
स
युक्तः
स
सुखी
नरः
24
▾
Meaning
Keep
योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव
यः
स
योगी
ब्रह्मनिर्वाणं
ब्रह्मभूतोऽधिगच्छति
25
▾
Meaning
Keep
लभन्ते
ब्रह्मनिर्वाणमृषयः
क्षीणकल्मषाः
छिन्नद्वैधा
यतात्मानः
सर्वभूतहिते
रताः
26
▾
Meaning
Keep
कामक्रोधवियुक्तानां
यतीनां
यतचेतसाम्
अभितो
ब्रह्मनिर्वाणं
वर्तते
विदितात्मनाम्
27
▾
Meaning
Keep
स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ
28
▾
Meaning
Keep
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः
विगतेच्छाभयक्रोधो
यः
सदा
मुक्त
एव
सः
29
▾
Meaning
Keep
भोक्तारं
यज्ञतपसां
सर्वलोकमहेश्वरम्
सुहृदं
सर्वभूतानां
ज्ञात्वा
मां
शान्तिमृच्छति
Previous
←
Jñānakarmasannyāsayogaḥ
Next
Ātmasaṃyamayogaḥ
→