Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Viśvarūpadarśanayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
मदनुग्रहाय
परमं
गुह्यमध्यात्मसंज्ञितम्
यत्
त्वयोक्तं
वचस्तेन
मोहोऽयं
विगतो
मम
2
▾
Meaning
Keep
भवाप्ययौ
हि
भूतानां
श्रुतौ
विस्तरशो
मया
त्वत्तः
कमलपत्राक्ष
माहात्म्यमपि
चाव्ययम्
3
▾
Meaning
Keep
एवमेतद्
यथाऽऽत्थ
त्वमात्मानं
परमेश्वर
द्रष्टुमिच्छामि
ते
रूपमैश्वरं
पुरुषोत्तम
4
▾
Meaning
Keep
मन्यसे
यदि
तच्छक्यं
मया
द्रष्टुमिति
प्रभो
योगेश्वर
ततो
मे
त्वं
दर्शयाऽऽत्मानमव्ययम्
5
▾
Meaning
Keep
पश्य
मे
पार्थ
रूपाणि
शतशोऽथ
सहस्रशः
नानाविधानि
दिव्यानि
नानावर्णाकृतीनि
च
6
▾
Meaning
Keep
पश्याऽऽदित्यान्
वसून्
रुद्रानश्विनौ
मरुतस्तथा
बहून्यदृष्टपूर्वाणि
पश्याऽऽश्चर्याणि
भारत
7
▾
Meaning
Keep
इहैकस्थं
जगत्
कृत्स्नं
पश्याद्य
सचराचरम्
मम
देहे
गुडाकेश
यच्चान्यद्
द्रष्टुमिच्छसि
8
▾
Meaning
Keep
न
तु
मां
शक्यसे
द्रष्टुमनेनैव
स्वचक्षुषा
दिव्यं
ददामि
ते
चक्षुः
पश्य
मे
योगमैश्वरम्
9
▾
Meaning
Keep
एवमुक्त्वा
ततो
राजन्
महायोगेश्वरो
हरिः
दर्शयामास
पार्थाय
परमं
रूपमैश्वरम्
10
▾
Meaning
Keep
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्
अनेकदिव्याभरणं
दिव्यानेकोद्यतायुधम्
11
▾
Meaning
Keep
दिव्यमाल्याम्बरधरं
दिव्यगन्धानुलेपनम्
सर्वाश्चर्यमयं
देवमनन्तं
विश्वतोमुखम्
12
▾
Meaning
Keep
दिवि
सूर्यसहस्रस्य
भवेद्
युगपदुत्थिता
यदि
भाः
सदृशी
सा
स्याद्
भासस्तस्य
महात्मनः
13
▾
Meaning
Keep
तत्रैकस्थं
जगत्
कृत्स्नं
प्रविभक्तमनेकधा
अपश्यद्
देवदेवस्य
शरीरे
पाण्डवस्तदा
14
▾
Meaning
Keep
ततः
स
विस्मयाविष्टो
हृष्टरोमा
धनञ्जयः
प्रणम्य
शिरसा
देवं
कृताञ्जलिरभाषत
15
▾
Meaning
Keep
पश्यामि
देवांस्तव
देव
देहे
सर्वांस्तथा
भूतविशेषसङ्घान्
ब्रह्माणमीशं
कमलासनस्थम्
ऋषींश्च
सर्वानुरगांश्च
दिव्यान्
16
▾
Meaning
Keep
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि
त्वां
सर्वतोऽनन्तरूपम्
नान्तं
न
मध्यं
न
पुनस्तवाऽऽदिं
पश्यामि
विश्वेश्वर
विश्वरूप
17
▾
Meaning
Keep
किरीटिनं
गदिनं
चक्रिणं
च
तेजोराशिं
सर्वतो
दीप्तिमन्तम्
पश्यामि
त्वां
दुर्निरीक्ष्यं
समन्ताद्
दीप्तानलार्कद्युतिमप्रमेयम्
18
▾
Meaning
Keep
त्वमक्षरं
परमं
वेदितव्यं
त्वमस्य
विश्वस्य
परं
निधानम्
त्वमव्ययः
शाश्वतधर्मगोप्ता
सनातनस्त्वं
पुरुषो
मतो
मे
19
▾
Meaning
Keep
अनादिमध्यान्तमनन्तवीर्यम्
अनन्तबाहुं
शशिसूर्यनेत्रम्
पश्यामि
त्वां
दीप्तहुताशवक्त्रं
स्वतेजसा
विश्वमिदं
तपन्तम्
20
▾
Meaning
Keep
द्यावापृथिव्योरिदमन्तरं
हि
व्याप्तं
त्वयैकेन
दिशश्च
सर्वाः
दृष्ट्वाऽद्भुतं
रूपमुग्रं
तवेदं
लोकत्रयं
प्रव्यथितं
महात्मन्
21
▾
Meaning
Keep
अमी
हि
त्वां
सुरसङ्घा
विशन्ति
केचिद्
भीताः
प्राञ्जलयो
गृणन्ति
स्वस्तीत्युक्त्वा
महर्षिसिद्धसङ्घाः
स्तुवन्ति
त्वां
स्तुतिभिः
पुष्कलाभिः
22
▾
Meaning
Keep
रुद्रादित्या
वसवो
ये
च
साध्याः
विश्वेश्विनौ
मरुतश्चोष्मपाश्च
गन्धर्वयक्षासुरसिद्धसङ्घाः
वीक्षन्ते
त्वां
विस्मिताश्चैव
सर्वे
23
▾
Meaning
Keep
रूपं
महत्
ते
बहुवक्त्रनेत्रं
महाबाहो
बहुबाहूरुपादम्
बहूदरं
बहुदंष्ट्राकरालं
दृष्ट्वा
लोकाः
प्रव्यथितास्तथाऽहम्
24
▾
Meaning
Keep
नभःस्पृशं
दीप्तमनेकवर्णं
व्यात्ताननं
दीप्तविशालनेत्रम्
दृष्ट्वा
हि
त्वां
प्रव्यथितान्तरात्मा
धृतिं
न
विन्दामि
शमं
च
विष्णो
25
▾
Meaning
Keep
दंष्ट्राकरालानि
च
ते
मुखानि
दृष्ट्वैव
कालानलसन्निभानि
दिशो
न
जाने
न
लभे
च
शर्म
प्रसीद
देवेश
जगन्निवास
26
▾
Meaning
Keep
अमी
च
त्वां
धृतराष्ट्रस्य
पुत्राः
सर्वे
सहैवावनिपालसङ्घैः
भीष्मो
द्रोणः
सूतपुत्रस्तथाऽसौ
सहास्मदीयैरपि
योधमुख्यैः
27
▾
Meaning
Keep
वक्त्राणि
ते
त्वरमाणा
विशन्ति
दंष्ट्राकरालानि
भयानकानि
केचिद्
विलग्ना
दशनान्तरेषु
सन्दृश्यन्ते
चूर्णितैरुत्तमाङ्गैः
28
▾
Meaning
Keep
यथा
नदीनां
बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा
द्रवन्ति
तथा
तवामी
नरलोकवीरा
विशन्ति
वक्त्राण्यभिविज्वलन्ति
29
▾
Meaning
Keep
यथा
प्रदीप्तं
ज्वलनं
पतङ्गाः
विशन्ति
नाशाय
समृद्धवेगाः
तथैव
नाशाय
विशन्ति
लोकाः
तवापि
वक्त्राणि
समृद्धवेगाः
30
▾
Meaning
Keep
लेलिह्यसे
ग्रसमानः
समन्तात्
लोकान्
समग्रान्
वदनैर्ज्वलद्भिः
तेजोभिरापूर्य
जगत्
समग्रं
भासस्तवोग्राः
प्रतपन्ति
विष्णो
31
▾
Meaning
Keep
आख्याहि
मे
को
भवानुग्ररूपो
नमोऽस्तु
ते
देववर
प्रसीद
विज्ञातुमिच्छामि
भवन्तमाद्यं
न
हि
प्रजानामि
तव
प्रवृत्तिम्
32
▾
Meaning
Keep
कालोऽस्मि
लोकक्षयकृत्
प्रवृद्धो
लोकान्
समाहर्तुमिह
प्रवृत्तः
ऋतेऽपि
त्वां
न
भविष्यन्ति
सर्वे
येऽवस्थिताः
प्रत्यनीकेषु
योधाः
33
▾
Meaning
Keep
तस्मात्
त्वमुत्तिष्ठ
यशो
लभस्व
जित्वा
शत्रून्
भुङ्क्ष्व
राज्यं
समृद्धम्
मयैवैते
निहताः
पूर्वमेव
निमित्तमात्रं
भव
सव्यसाचिन्
34
▾
Meaning
Keep
द्रोणं
च
भीष्मं
च
जयद्रथं
च
कर्णं
तथाऽन्यानपि
योधवीरान्
मया
हतांस्त्वं
जहि
मा
व्यथिष्ठा
युध्यस्व
जेतासि
रणे
सपत्नान्
35
▾
Meaning
Keep
एतच्छ्रुत्वा
वचनं
केशवस्य
कृताञ्जलिर्वेपमानः
किरीटी
नमस्कृत्वा
भूय
एवाऽऽह
कृष्णं
सगद्गदं
भीतभीतः
प्रणम्य
36
▾
Meaning
Keep
स्थाने
हृषीकेश
तव
प्रकीर्त्या
जगत्
प्रहृष्यत्यनुरज्यते
च
रक्षांसि
भीतानि
दिशो
द्रवन्ति
सर्वे
नमस्यन्ति
च
सिद्धसङ्घाः
37
▾
Meaning
Keep
कस्माच्च
ते
न
नमेरन्
महात्मन्
गरीयसे
ब्रह्मणोऽप्यादिकर्त्रे
अनन्त
देवेश
जगन्निवास
त्वमक्षरं
सदसत्
तत्
परं
यत्
38
▾
Meaning
Keep
त्वमादिदेवः
पुरुषः
पुराणः
त्वमस्य
विश्वस्य
परं
निधानम्
वेत्ताऽसि
वेद्यं
च
परं
च
धाम
त्वया
ततं
विश्वमनन्तरूप
39
▾
Meaning
Keep
वायुर्यमोऽग्निर्वरुणः
शशाङ्कः
प्रजापतिस्त्वं
प्रपितामहश्च
नमो
नमस्तेऽस्तु
सहस्रकृत्वः
पुनश्च
भूयोऽपि
नमो
नमस्ते
40
▾
Meaning
Keep
नमः
पुरस्तादथ
पृष्ठतस्ते
नमोऽस्तु
ते
सर्वत
एव
सर्व
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं
समाप्नोषि
ततोऽसि
सर्वः
41
▾
Meaning
Keep
सखेति
मत्वा
प्रसभं
यदुक्तं
हे
कृष्ण
हे
यादव
हे
सखेति
अजानता
महिमानं
तवेदं
मया
प्रमादात्
प्रणयेन
वाऽपि
42
▾
Meaning
Keep
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु
एकोऽथवाऽप्यच्युत
तत्
समक्षं
तत्
क्षामये
त्वामहमप्रमेयम्
43
▾
Meaning
Keep
पिताऽसि
लोकस्य
चराचरस्य
त्वमस्य
पूज्यश्च
गुरुर्गरीयान्
न
त्वत्समोऽस्त्यभ्यधिकः
कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव
44
▾
Meaning
Keep
तस्मात्
प्रणम्य
प्रणिधाय
कायं
प्रसादये
त्वामहमीशमीड्यम्
पितेव
पुत्रस्य
सखेव
सख्युः
प्रियः
प्रियायाऽर्हसि
देव
सोढुम्
45
▾
Meaning
Keep
अदृष्टपूर्वं
हृषितोऽस्मि
दृष्ट्वा
भयेन
च
प्रव्यथितं
मनो
मे
तदेव
मे
दर्शय
देव
रूपं
प्रसीद
देवेश
जगन्निवास
46
▾
Meaning
Keep
किरीटिनं
गदिनं
चक्रहस्तम्
इच्छामि
त्वां
द्रष्टुमहं
तथैव
तेनैव
रूपेण
चतुर्भुजेन
सहस्रबाहो
भव
विश्वमूर्ते
47
▾
Meaning
Keep
मया
प्रसन्नेन
तवार्जुनेदं
रूपं
परं
दर्शितमात्मयोगात्
तेजोमयं
विश्वमनन्तमाद्यं
यन्मे
त्वदन्येन
न
दृष्टपूर्वम्
48
▾
Meaning
Keep
न
वेदयज्ञाध्ययनैर्न
दानैः
न
च
क्रियाभिर्न
तपोभिरुग्रैः
एवंरूपः
शक्य
अहं
नृलोके
द्रष्टुं
त्वदन्येन
कुरुप्रवीर
49
▾
Meaning
Keep
मा
ते
व्यथा
मा
च
विमूढभावो
दृष्ट्वा
रूपं
घोरमीदृङ्ममेदम्
व्यपेतभीः
प्रीतमनाः
पुनस्त्वं
तदेव
मे
रूपमिदं
प्रपश्य
50
▾
Meaning
Keep
इत्यर्जुनं
वासुदेवस्तथोक्त्वा
स्वकं
रूपं
दर्शयामास
भूयः
आश्वासयामास
च
भीतमेनं
भूत्वा
पुनः
सौम्यवपुर्महात्मा
51
▾
Meaning
Keep
दृष्ट्वेदं
मानुषं
रूपं
तव
सौम्यं
जनार्दन
इदानीमस्मि
संवृत्तः
सचेताः
प्रकृतिं
गतः
52
▾
Meaning
Keep
सुदुर्दर्शमिदं
रूपं
दृष्टवानसि
यन्मम
देवा
अप्यस्य
रूपस्य
नित्यं
दर्शनकाङ्क्षिणः
53
▾
Meaning
Keep
नाहं
वेदैर्न
तपसा
न
दानेन
न
चेज्यया
शक्य
एवंविधो
द्रष्टुं
दृष्टवानसि
मां
यथा
54
▾
Meaning
Keep
भक्त्या
त्वनन्यया
शक्य
अहमेवंविधोऽर्जुन
ज्ञातुं
द्रष्टुं
च
तत्त्वेन
प्रवेष्टुं
च
परन्तप
55
▾
Meaning
Keep
मत्कर्मकृन्मत्परमो
मद्भक्तः
सङ्गवर्जितः
निर्वैरः
सर्वभूतेषु
यः
स
मामेति
पाण्डव
Previous
←
Vibhūtiyogaḥ
Next
Bhaktiyogaḥ
→