Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Vibhūtiyogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
भूय
एव
महाबाहो
शृणु
मे
परमं
वचः
यत्
तेऽहं
प्रीयमाणाय
वक्ष्यामि
हितकाम्यया
2
▾
Meaning
Keep
न
मे
विदुः
सुरगणाः
प्रभवं
न
महर्षयः
अहमादिर्हि
देवानां
महर्षीणां
च
सर्वशः
3
▾
Meaning
Keep
यो
मामजमनादिं
च
वेत्ति
लोकमहेश्वरम्
असम्मूढः
स
मर्त्येषु
सर्वपापैः
प्रमुच्यते
4
▾
Meaning
Keep
बुद्धिर्ज्ञानमसम्मोहः
क्षमा
सत्यं
दमः
शमः
सुखं
दुःखं
भवोऽभावो
भयं
चाभयमेव
च
5
▾
Meaning
Keep
अहिंसा
समता
तुष्टिस्तपो
दानं
यशोऽयशः
भवन्ति
भावा
भूतानां
मत्त
एव
पृथग्विधाः
6
▾
Meaning
Keep
महर्षयः
सप्त
पूर्वे
चत्वारो
मनवस्तथा
मद्भावा
मानसा
जाता
येषां
लोक
इमाः
प्रजाः
7
▾
Meaning
Keep
एतां
विभूतिं
योगं
च
मम
यो
वेत्ति
तत्त्वतः
सोऽविकम्पेन
योगेन
युज्यते
नात्र
संशयः
8
▾
Meaning
Keep
अहं
सर्वस्य
प्रभवो
मत्तः
सर्वं
प्रवर्तते
इति
मत्वा
भजन्ते
मां
बुधा
भावसमन्विताः
9
▾
Meaning
Keep
मच्चित्ता
मद्गतप्राणा
बोधयन्तः
परस्परम्
कथयन्तश्च
मां
नित्यं
तुष्यन्ति
च
रमन्ति
च
10
▾
Meaning
Keep
तेषां
सततयुक्तानां
भजतां
प्रीतिपूर्वकम्
ददामि
बुद्धियोगं
तं
येन
मामुपयान्ति
ते
11
▾
Meaning
Keep
तेषामेवानुकम्पार्थम्
अहमज्ञानजं
तमः
नाशयाम्यात्मभावस्थो
ज्ञानदीपेन
भास्वता
12
▾
Meaning
Keep
परं
ब्रह्म
परं
धाम
पवित्रं
परमं
भवान्
पुरुषं
शाश्वतं
दिव्यमादिदेवमजं
विभुम्
13
▾
Meaning
Keep
आहुस्त्वामृषयः
सर्वे
देवर्षिर्नारदस्तथा
असितो
देवलो
व्यासः
स्वयं
चैव
ब्रवीषि
मे
14
▾
Meaning
Keep
सर्वमेतदृतं
मन्ये
यन्मां
वदसि
केशव
न
हि
ते
भगवन्
व्यक्तिं
विदुर्देवा
न
दानवाः
15
▾
Meaning
Keep
स्वयमेवाऽऽत्मनाऽऽत्मानं
वेत्थ
त्वं
पुरुषोत्तम
भूतभावन
भूतेश
देवदेव
जगत्पते
16
▾
Meaning
Keep
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि
17
▾
Meaning
Keep
कथं
विद्यामहं
योगिंस्त्वां
सदा
परिचिन्तयन्
केषु
केषु
च
भावेषु
चिन्त्योऽसि
भगवन्
मया
18
▾
Meaning
Keep
विस्तरेणाऽऽत्मनो
योगं
विभूतिं
च
जनार्दन
भूयः
कथय
तृप्तिर्हि
शृण्वतो
नास्ति
मेऽमृतम्
19
▾
Meaning
Keep
हन्त
ते
कथयिष्यामि
दिव्या
ह्यात्मविभूतयः
प्राधान्यतः
कुरुश्रेष्ठ
नास्त्यन्तो
विस्तरस्य
मे
20
▾
Meaning
Keep
अहमात्मा
गुडाकेश
सर्वभूताशयस्थितः
अहमादिश्च
मध्यं
च
भूतानामन्त
एव
च
21
▾
Meaning
Keep
आदित्यानामहं
विष्णुर्ज्योतिषां
रविरंशुमान्
मरीचिर्मरुतामस्मि
नक्षत्राणामहं
शशी
22
▾
Meaning
Keep
वेदानां
सामवेदोऽस्मि
देवानामस्मि
वासवः
इन्द्रियाणां
मनश्चास्मि
भूतानामस्मि
चेतना
23
▾
Meaning
Keep
रुद्राणां
शङ्करश्चास्मि
वित्तेशो
यक्षरक्षसाम्
वसूनां
पावकश्चास्मि
मेरुः
शिखरिणामहम्
24
▾
Meaning
Keep
पुरोधसां
च
मुख्यं
मां
विद्धि
पार्थ
बृहस्पतिम्
सेनानीनामहं
स्कन्दः
सरसामस्मि
सागरः
25
▾
Meaning
Keep
महर्षीणां
भृगुरहं
गिरामस्म्येकमक्षरम्
यज्ञानां
जपयज्ञोऽस्मि
स्थावराणां
हिमालयः
26
▾
Meaning
Keep
अश्वत्थः
सर्ववृक्षाणां
देवर्षीणां
च
नारदः
गन्धर्वाणां
चित्ररथः
सिद्धानां
कपिलो
मुनिः
27
▾
Meaning
Keep
उच्चैःश्रवसमश्वानां
विद्धि
माममृतोद्भवम्
ऐरावतं
गजेन्द्राणां
नराणां
च
नराधिपम्
28
▾
Meaning
Keep
आयुधानामहं
वज्रं
धेनूनामस्मि
कामधुक्
प्रजनश्चास्मि
कन्दर्पः
सर्पाणामस्मि
वासुकिः
29
▾
Meaning
Keep
अनन्तश्चास्मि
नागानां
वरुणो
यादसामहम्
पितॄणामर्यमा
चास्मि
यमः
संयमतामहम्
30
▾
Meaning
Keep
प्रह्लादश्चास्मि
दैत्यानां
कालः
कलयतामहम्
मृगाणां
च
मृगेन्द्रोऽहं
वैनतेयश्च
पक्षिणाम्
31
▾
Meaning
Keep
पवनः
पवतामस्मि
रामः
शस्त्रभृतामहम्
झषाणां
मकरश्चास्मि
स्रोतसामस्मि
जाह्नवी
32
▾
Meaning
Keep
सर्गाणामादिरन्तश्च
मध्यं
चैवाहमर्जुन
अध्यात्मविद्या
विद्यानां
वादः
प्रवदतामहम्
33
▾
Meaning
Keep
अक्षराणामकारोऽस्मि
द्वन्द्वः
सामासिकस्य
च
अहमेवाक्षयः
कालो
धाताऽहं
विश्वतोमुखः
34
▾
Meaning
Keep
मृत्युः
सर्वहरश्चाहमुद्भवश्च
भविष्यताम्
कीर्तिः
श्रीर्वाक्
च
नारीणां
स्मृतिर्मेधा
धृतिः
क्षमा
35
▾
Meaning
Keep
बृहत्साम
तथा
साम्नां
गायत्री
छन्दसामहम्
मासानां
मार्गशीर्षोऽहमृतूनां
कुसुमाकरः
36
▾
Meaning
Keep
द्यूतं
छलयतामस्मि
तेजस्तेजस्विनामहम्
जयोऽस्मि
व्यवसायोऽस्मि
सत्त्वं
सत्त्ववतामहम्
37
▾
Meaning
Keep
वृष्णीनां
वासुदेवोऽस्मि
पाण्डवानां
धनञ्जयः
मुनीनामप्यहं
व्यासः
कवीनामुशना
कविः
38
▾
Meaning
Keep
दण्डो
दमयतामस्मि
नीतिरस्मि
जिगीषताम्
मौनं
चैवास्मि
गुह्यानां
ज्ञानं
ज्ञानवतामहम्
39
▾
Meaning
Keep
यच्चापि
सर्वभूतानां
बीजं
तदहमर्जुन
न
तदस्ति
विना
यत्
स्यान्मया
भूतं
चराचरम्
40
▾
Meaning
Keep
नान्तोऽस्ति
मम
दिव्यानां
विभूतीनां
परन्तप
एष
तूद्देशतः
प्रोक्तो
विभूतेर्विस्तरो
मया
41
▾
Meaning
Keep
यद्
यद्
विभूतिमत्
सत्त्वं
श्रीमदूर्जितमेव
वा
तत्
तदेवावगच्छ
त्वं
मम
तेजोंशसम्भवम्
42
▾
Meaning
Keep
अथवा
बहुनैतेन
किं
ज्ञातेन
तवार्जुन
विष्टभ्याहमिदं
कृत्स्नमेकांशेन
स्थितो
जगत्
Previous
←
Rājavidyārājaguhyayogaḥ
Next
Viśvarūpadarśanayogaḥ
→