Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Birth of the Śloka
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
नारदस्य
तु
तद्वाक्यं
श्रुत्वा
वाक्यविशारदः
।
पूजयामास
धर्मात्मा
सहशिष्यो
महामुनिः
॥
2
▾
Meaning
Keep
यथावत्पूजितस्तेन
देवर्षिर्नारदस्तथा
।
आपृच्छ्यैवाभ्यनुज्ञातः
स
जगाम
विहायसम्
॥
3
▾
Meaning
Keep
स
मुहूर्तं
गते
तस्मिन्देवलोकं
मुनिस्तदा
।
जगाम
तमसातीरं
जाह्नव्यास्त्वविदूरतः
॥
4
▾
Meaning
Keep
स
तु
तीरं
समासाद्य
तमसाया
मुनिस्तदा
।
शिष्यमाह
स्थितं
पार्श्वे
दृष्ट्वा
तीर्थमकर्दमम्
॥
5
▾
Meaning
Keep
अकर्दममिदं
तीर्थं
भरद्वाज
निशामय
।
रमणीयं
प्रसन्नाम्बु
सन्मनुष्यमनो
यथा
॥
6
▾
Meaning
Keep
न्यस्यतां
कलशस्तात
दीयतां
वल्कलं
मम
।
इदमेवावगाहिष्ये
तमसातीर्थमुत्तमम्
॥
7
▾
Meaning
Keep
एवमुक्तो
भरद्वाजो
वाल्मीकेन
महात्मना
।
प्रायच्छत
मुनेस्तस्य
वल्कलं
नियतो
गुरोः
॥
8
▾
Meaning
Keep
स
शिष्यहस्तादादाय
वल्कलं
नियतेन्द्रियः
।
विचचार
ह
पश्यंस्तत्सर्वतो
विपुलं
वनम्
॥
9
▾
Meaning
Keep
तस्याभ्याशे
तु
मिथुनं
चरन्तमनपायिनम्
।
ददर्श
भगवांस्तत्र
क्रौञ्चयोश्चारुनिःस्वनम्
॥
10
▾
Meaning
Keep
तस्मात्तु
मिथुनादेकं
पुमांसं
पापनिश्चयः
।
जघान
वैरनिलयो
निषादस्तस्य
पश्यतः
॥
11
▾
Meaning
Keep
तं
शोणितपरीताङ्गं
वेष्टमानं
महीतले
।
भार्या
तु
निहतं
दृष्ट्वा
रुराव
करुणां
गिरम्
॥
12
▾
Meaning
Keep
वियुक्ता
पतिना
तेन
द्विजेन
सहचारिणा
।
ताम्रशीर्षेण
मत्तेन
पत्रिणा
सहितेन
वै
॥
13
▾
Meaning
Keep
तथा
तु
तं
द्विजं
दृष्ट्वा
निषादेन
निपातितम्
।
ऋषेर्धर्मात्मनस्तस्य
कारुण्यं
समपद्यत
॥
14
▾
Meaning
Keep
ततः
करुणवेदित्वादधर्मोऽयमिति
द्विजः
।
निशाम्य
रुदतीं
क्रौञ्चीमिदं
वचनमब्रवीत्
॥
15
▾
Meaning
Keep
मा
निषाद
प्रतिष्ठां
त्वमगमः
शाश्वतीः
समाः
।
यत्क्रौञ्चमिथुनादेकमवधीः
काममोहितम्
॥
16
▾
Meaning
Keep
तस्यैवं
ब्रुवतश्चिन्ता
बभूव
हृदि
वीक्षतः
।
शोकार्तेनास्य
शकुनेः
किमिदं
व्याहृतं
मया
॥
17
▾
Meaning
Keep
चिन्तयन्स
महाप्राज्ञश्चकार
मतिमान्
मतिम्
।
शिष्यं
चैवाब्रवीद्वाक्यमिदं
स
मुनिपुङ्गवः
॥
18
▾
Meaning
Keep
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः
।
शोकार्तस्य
प्रवृत्तो
मे
श्लोको
भवतु
नान्यथा
॥
19
▾
Meaning
Keep
शिष्यस्तु
तस्य
ब्रुवतो
मुनेर्वाक्यमनुत्तमम्
।
प्रतिजग्राह
संहृष्टस्तस्य
तुष्टोऽभवद्गुरुः
॥
20
▾
Meaning
Keep
सोऽभिषेकं
ततः
कृत्वा
तीर्थे
तस्मिन्यथाविधि
।
तमेव
चिन्तयन्नर्थमुपावर्तत
वै
मुनिः
॥
21
▾
Meaning
Keep
भरद्वाजस्ततः
शिष्यो
विनीतः
श्रुतवान्
मुनिः
।
कलशं
पूर्णमादाय
पृष्ठतोऽनुजगाम
ह
॥
22
▾
Meaning
Keep
स
प्रविश्याश्रमपदं
शिष्येण
सह
धर्मवित्
।
उपविष्टः
कथाश्चान्याश्चकार
ध्यानमास्थितः
॥
23
▾
Meaning
Keep
आजगाम
ततो
ब्रह्मा
लोककर्ता
स्वयं
प्रभुः
।
चतुर्मुखो
महातेजा
द्रष्टुं
तं
मुनिपुङ्गवम्
॥
24
▾
Meaning
Keep
वाल्मीकिरथ
तं
दृष्ट्वा
सहसोत्थाय
वाग्यतः
।
प्राञ्जलिः
प्रयतो
भूत्वा
तस्थौ
परमविस्मितः
॥
25
▾
Meaning
Keep
पूजयामास
तं
देवं
पाद्यार्घ्यासनवन्दनैः
।
प्रणम्य
विधिवच्चैनं
पृष्ट्वाऽनामयमव्ययम्
॥
26
▾
Meaning
Keep
अथोपविश्य
भगवानासने
परमार्चिते
।
वाल्मीकये
च
ऋषये
सन्दिदेशासनं
ततः
॥
27
▾
Meaning
Keep
ब्रह्मणा
समनुज्ञातः
सोऽप्युपाविशदासने
।
उपविष्टे
तदा
तस्मिन्साक्षाल्लोकपितामहे
॥
28
▾
Meaning
Keep
तद्गतेनैव
मनसा
वाल्मीकिर्ध्यानमास्थितः
।
पापात्मना
कृतं
कष्टं
वैरग्रहणबुद्धिना
॥
29
▾
Meaning
Keep
यस्तादृशं
चारुरवं
क्रौञ्चं
हन्यादकारणात्
।
शोचन्नेव
मुहुः
क्रौञ्चीमुप
श्लोकमिमं
पुनः
॥
30
▾
Meaning
Keep
पुनरन्तर्गतमना
भूत्वा
शोकपरायणः
।
तमुवाच
ततो
ब्रह्मा
प्रहस्य
मुनिपुङ्गवम्
॥
31
▾
Meaning
Keep
श्लोक
एव
त्वया
बद्धो
नात्र
कार्या
विचारणा
।
मच्छन्दादेव
ते
ब्रह्मन्
प्रवृत्तेऽयं
सरस्वती
॥
32
▾
Meaning
Keep
रामस्य
चरितं
कृत्स्नं
कुरु
त्वमृषिसत्तम
।
धर्मात्मनो
गुणवतो
लोके
रामस्य
धीमतः
॥
33
▾
Meaning
Keep
वृत्तं
कथय
वीरस्य
यथा
ते
नारदाच्छ्रुतम्
।
रहस्यं
च
प्रकाशं
च
यद्वृत्तं
तस्य
धीमतः
॥
34
▾
Meaning
Keep
रामस्य
सह
सौमित्रे
राक्षसानां
च
सर्वशः
।
वैदेह्याश्चैव
यद्वृत्तं
प्रकाशं
यदि
वा
रहः
॥
35
▾
Meaning
Keep
तच्चाप्यविदितं
सर्वं
विदितं
ते
भविष्यति
।
न
ते
वागनृता
काव्ये
काचिदत्र
भविष्यति
॥
36
▾
Meaning
Keep
कुरु
रामकथां
पुण्यां
श्लोकबद्धां
मनोरमाम्
।
यावत्
स्थास्यन्ति
गिरयः
सरितश्च
महीतले
॥
37
▾
Meaning
Keep
तावद्रामायण
कथा
लोकेषु
प्रचरिष्यति
।
यावद्रामायण
कथा
त्वत्कृता
प्रचरिष्यति
॥
38
▾
Meaning
Keep
तावदूर्ध्वमधश्च
त्वं
मल्लोकेषु
निवत्स्यसि
।
इत्युक्त्वा
भगवान्
ब्रह्मा
तत्रैवान्तरधीयत
॥
39
▾
Meaning
Keep
ततः
सशिष्यो
भगवान्मुनिर्विस्मयमाययौ
।
तस्य
शिष्यास्ततः
सर्वे
जगुः
श्लोकमिमं
पुनः
॥
40
▾
Meaning
Keep
मुहुर्मुहुः
प्रीयमाणा
प्राहुश्च
भृशविस्मिताः
।
समाक्षरैश्चतुर्भिर्यः
पादैर्गीतो
महर्षिणा
॥
41
▾
Meaning
Keep
सोऽनुव्याहरणाद्भूयः
शोकः
श्लोकत्वमागतः
।
तस्य
बुद्धिरियं
जाता
वाल्मीकेर्भावितात्मनः
।
कृत्स्नं
रामायणं
काव्यमीदृशैः
करवाण्यहम्
॥
42
▾
Meaning
Keep
उदारवृत्तार्थपदैर्मनोरमै-
-स्ततः
स
रामस्य
चकार
कीर्तिमान्
।
समाक्षरैः
श्लोकशतैर्यशस्विनो
यशस्करं
काव्यमुदारधीर्मुनिः
॥
43
▾
Meaning
Keep
तदुपगतसमाससन्धियोगं
सममधुरोपनतार्थवाक्यबद्धम्
।
रघुवरचरितं
मुनिप्रणीतं
दशशिरसश्च
वधं
निशामयध्वम्
॥
Previous
←
Nārada's Summary of the Deeds of Rāma
Next
The Vision of the Epic
→