Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Vision of the Epic
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
श्रुत्वा
वस्तु
समग्रं
तद्धर्मात्मा
धर्मसंहितम्
।
व्यक्तमन्वेषते
भूयो
यद्वृत्तं
तस्य
धीमतः
॥
2
▾
Meaning
Keep
उपस्पृस्योदकं
सम्यङ्मुनिः
स्थित्वा
कृताञ्जलिः
।
प्राचीनाग्रेषु
दर्भेषु
धर्मेणान्वीक्षते
गतिम्
॥
3
▾
Meaning
Keep
रामलक्ष्मणसीताभी
राज्ञा
दशरथेन
च
।
सभार्येण
सराष्ट्रेण
यत्प्राप्तं
तत्र
तत्त्वतः
॥
4
▾
Meaning
Keep
हसितं
भाषितं
चैव
गतिर्या
यच्च
चेष्टितम्
।
तत्सर्वं
धर्मवीर्येण
यथावत्सम्प्रपश्यति
॥
5
▾
Meaning
Keep
स्त्रीतृतीयेन
च
तथा
यत्प्राप्तं
चरता
वने
।
सत्यसन्धेन
रामेण
तत्सर्वं
चान्ववेक्षितम्
॥
6
▾
Meaning
Keep
ततः
पश्यति
धर्मात्मा
तत्सर्वं
योगमास्थितः
।
पुरा
यत्तत्र
निर्वृत्तं
पाणावामलकं
यथा
॥
7
▾
Meaning
Keep
तत्सर्वं
तात्त्वतो
दृष्ट्वा
धर्मेण
स
महाद्युतिः
।
अभिरामस्य
रामस्य
चरितं
कर्तुमुद्यतः
॥
8
▾
Meaning
Keep
कामार्थगुणसम्युक्तं
धर्मार्थगुणविस्तरम्
।
समुद्रमिव
रत्नाढ्यं
सर्वश्रुतिमनोहरम्
॥
9
▾
Meaning
Keep
स
यथा
कथितं
पूर्वं
नारदेन
महर्षिणा
।
रघुनाथस्य
चरितं
चकार
भगवानृषिः
॥
10
▾
Meaning
Keep
जन्म
रामस्य
सुमहद्वीर्यं
सर्वानुकूलताम्
।
लोकस्य
प्रियतां
क्षान्तिं
सौम्यतां
सत्यशीलताम्
॥
11
▾
Meaning
Keep
नानाचित्रकथाश्चान्या
विश्वामित्रसमागमे
।
जानक्याश्च
विवाहं
च
धनुषश्च
विभेदनम्
॥
12
▾
Meaning
Keep
रामरामविवादं
च
गुणान्दाशरथेस्तथा
।
तथा
रामाभिषेकं
च
कैकेय्या
दुष्टभावताम्
॥
13
▾
Meaning
Keep
विघातं
चाभिषेकस्य
रामस्य
च
विवासनम्
।
राज्ञः
शोकविलापं
च
परलोकस्य
चाश्रयम्
॥
14
▾
Meaning
Keep
प्रकृतीनां
विषादं
च
प्रकृतीनां
विसर्जनम्
।
निषादाधिपसंवादं
सूतोपावर्तनं
तथा
॥
15
▾
Meaning
Keep
गङ्गायाश्चापि
सन्तारं
भरद्वाजस्य
दर्शनम्
।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य
दर्शनम्
॥
16
▾
Meaning
Keep
वास्तुकर्म
निवेशं
च
भरतागमनं
तथा
।
प्रसादनं
च
रामस्य
पितुश्च
सलिलक्रियाम्
॥
17
▾
Meaning
Keep
पादुकाग्र्याभिषेकं
च
नन्दिग्रामनिवासनम्
।
दण्डकारण्यगमनं
विराधस्य
वधं
तथा
॥
18
▾
Meaning
Keep
दर्शनं
शरभङ्गस्य
सुतीक्ष्णेनापि
सङ्गतिम्
।
अनसूयानमस्यां
च
अङ्गरागस्य
चार्पणम्
॥
19
▾
Meaning
Keep
अगस्त्यदर्शनं
चैव
जटायोरभिसङ्गमम्
।
पञ्चवट्याश्च
गमनं
शूर्पणख्याश्च
दर्शनम्
॥
20
▾
Meaning
Keep
शूर्पणख्याश्च
संवादं
विरूपकरणं
तथा
।
वधं
खरत्रिशिरसोरुत्थानं
रावणस्य
च
॥
21
▾
Meaning
Keep
मारीचस्य
वधं
चैव
वैदेह्या
हरणं
तथा
।
राघवस्य
विलापं
च
गृध्रराजनिबर्हणम्
॥
22
▾
Meaning
Keep
कबन्धदर्शनं
चैव
पम्पायाश्चापि
दर्शनम्
।
शबरी
दर्शनं
चैव
हनूमद्दर्शनं
तथा
।
विलापं
चैव
पम्पायं
राघवस्य
महात्मनः
॥
23
▾
Meaning
Keep
ऋश्यमूकस्य
गमनं
सुग्रीवेण
समागमम्
।
प्रत्ययोत्पादनं
सख्यं
वालिसुग्रीवविग्रहम्
॥
24
▾
Meaning
Keep
वालिप्रमथनं
चैव
सुग्रीवप्रतिपादनम्
।
ताराविलापं
समयं
वर्षरात्रनिवासनम्
॥
25
▾
Meaning
Keep
कोपं
राघवसिंहस्य
बलानामुपसङ्ग्रहम्
।
दिशः
प्रस्थापनं
चैव
पृथिव्याश्च
निवेदनम्
॥
26
▾
Meaning
Keep
अङ्गुलीयकदानं
च
ऋक्षस्य
बिलदर्शनम्
।
प्रायोपवेशनं
चापि
सम्पातेश्चैव
दर्शनम्
॥
27
▾
Meaning
Keep
पर्वतारोहणं
चैव
सागरस्य
च
लङ्घनम्
।
समुद्रवचनाच्चैव
मैनाकस्यापि
दर्शनम्
॥
28
▾
Meaning
Keep
राक्षसीतर्जनं
चैव
छायाग्राहस्य
दर्शनम्
।
सिंहिकायाश्च
निधनं
लङ्कामलयदर्शनम्
।
रात्रौ
लङ्काप्रवेशं
च
एकस्यापि
विचिन्तनम्
॥
29
▾
Meaning
Keep
दर्शनं
रावणस्यापि
पुष्पकस्य
च
दर्शनम्
।
आपानभूमिगमनमवरोधस्य
दर्शनम्
॥
30
▾
Meaning
Keep
अशोकवनिकायानं
सीतायाश्चापि
दर्शनम्
।
राक्षसीतर्जनं
चैव
त्रिजटास्वप्नदर्शनम्
॥
31
▾
Meaning
Keep
अभिज्ञानप्रदानं
च
सीतायाश्चाभिभाषणम्
।
मणिप्रदानं
सीतायाः
वृक्षभङ्गं
तथैव
च
॥
32
▾
Meaning
Keep
राक्षसीविद्रवं
चैव
किङ्कराणां
निबर्हणम्
।
ग्रहणं
वायुसूनोश्च
लङ्कादाहाभिगर्जनम्
॥
33
▾
Meaning
Keep
प्रतिप्लवनमेवाथ
मधूनां
हरणं
तथा
।
राघवाश्वासनं
चैव
मणिनिर्यातनं
तथा
॥
34
▾
Meaning
Keep
सङ्गमं
च
समुद्रेण
नलसेतोश्च
बन्धनम्
।
प्रतारं
च
समुद्रस्य
रात्रौ
लङ्कावरोधनम्
॥
35
▾
Meaning
Keep
विभीषणेन
संसर्गं
वधोपायनिवेदनम्
।
कुम्भकर्णस्य
निधनं
मेघनादनिबर्हणम्
॥
36
▾
Meaning
Keep
रावणस्य
विनाशं
च
सीतावाप्तिमरेः
पुरे
।
विभीषणाभिषेकं
च
पुष्पकस्य
निवेदनम्
॥
37
▾
Meaning
Keep
अयोध्यायाश्च
गमनं
भरतेन
समागमम्
।
रामाभिषेकाभ्युदयं
सर्वसैन्यविसर्जनम्
॥
38
▾
Meaning
Keep
स्वराष्ट्ररञ्जनं
चैव
वैदेह्याश्च
विसर्जनम्
।
अनागतं
च
यत्किञ्चिद्रामस्य
वसुधातले
।
तच्चकारोत्तरे
काव्ये
वाल्मीकिर्भगवानृषिः
॥
Previous
←
The Birth of the Śloka
Next
The Song of Kuśa and Lava
→