Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Song of Kuśa and Lava
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
प्राप्तराज्यस्य
रामस्य
वाल्मीकिर्भगवानृषिः
।
चकार
चरितं
कृत्स्नं
विचित्रपदमात्मवान्
॥
2
▾
Meaning
Keep
चतुर्विंशत्सहस्राणि
श्लोकानामुक्तवानृषिः
।
तथा
सर्गशतान्पञ्च
षट्काण्डानि
तथोत्तरम्
॥
3
▾
Meaning
Keep
कृत्वापि
तन्महाप्राज्ञः
सभविष्यं
सहोत्तरम्
।
चिन्तयामास
को
न्वेतत्प्रयुञ्जीयादिति
प्रभुः
॥
4
▾
Meaning
Keep
तस्य
चिन्तयमानस्य
महर्षेर्भावितात्मनः
।
अगृह्णीतां
ततः
पादौ
मुनिवेषौ
कुशीलवौ
॥
5
▾
Meaning
Keep
कुशीलवौ
तु
धर्मज्ञौ
राजपुत्रौ
यशस्विनौ
।
भ्रातरौ
स्वरसम्पन्नौ
ददर्शाश्रमवासिनौ
॥
6
▾
Meaning
Keep
स
तु
मेधाविनौ
दृष्ट्वा
वेदेषु
परिनिष्ठितौ
।
वेदोपबृंहणार्थाय
तावग्राहयत
प्रभुः
॥
7
▾
Meaning
Keep
काव्यं
रामायणं
कृत्स्नं
सीतायाश्चरितं
महत्
।
पौलस्त्यवधमित्येव
चकार
चरितव्रतः
॥
8
▾
Meaning
Keep
पाठ्ये
गेये
च
मधुरं
प्रमाणैस्त्रिभिरन्वितम्
।
जातिभिः
सप्तभिर्बद्धं
तन्त्रीलयसमन्वितम्
॥
9
▾
Meaning
Keep
हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः
।
बीभत्साद्भुतसम्युक्तं
काव्यमेतदगायताम्
॥
10
▾
Meaning
Keep
तौ
तु
गान्धर्वतत्त्वज्ञौ
मूर्छनास्थानकोविदौ
।
भ्रातरौ
स्वरसम्पन्नौ
गन्धर्वाविव
रूपिणौ
॥
11
▾
Meaning
Keep
रूपलक्षणसम्पन्नौ
मधुरस्वरभाषिणौ
।
बिम्बादिवोद्धृतौ
बिम्बौ
रामदेहात्तथापरौ
॥
12
▾
Meaning
Keep
तौ
राजपुत्रौ
कार्त्स्न्येन
धर्माख्यानमनुत्तमम्
।
वाचो
विधेयं
तत्सर्वं
कृत्वा
काव्यमनिन्दितौ
॥
13
▾
Meaning
Keep
ऋषीणां
च
द्विजातीनां
साधूनां
च
समागमे
।
यथोपदेशं
तत्त्वज्ञौ
जगतुस्तौ
समाहितौ
॥
14
▾
Meaning
Keep
महात्मानौ
महाभागौ
सर्वलक्षणलक्षितौ
।
तौ
कदाचित्समेतानामृषीणां
भावितात्मनाम्
॥
15
▾
Meaning
Keep
आसीनानां
समीपस्थाविदं
काव्यमगायताम्
।
तच्छ्रुत्वा
मुनयः
सर्वे
बाष्पपर्याकुलेक्षणाः
॥
16
▾
Meaning
Keep
साधु
साध्विति
चाप्यूचुः
परं
विस्मयमागताः
।
ते
प्रीतमनसः
सर्वे
मुनयो
धर्मवत्सलाः
॥
17
▾
Meaning
Keep
प्रशशंसुः
प्रशस्तव्यौ
गायन्तौ
तौ
कुशीलवौ
।
अहो
गीतस्य
माधुर्यं
श्लोकानां
च
विशेषतः
॥
18
▾
Meaning
Keep
चिरनिर्वृत्तमप्येतत्
प्रत्यक्षमिव
दर्शितम्
।
प्रविश्य
तावुभौ
सुष्टु
तथा
भावमगायताम्
॥
19
▾
Meaning
Keep
सहितौ
मधुरं
रक्तं
सम्पन्नं
स्वरसम्पदा
।
एवं
प्रशस्यमानौ
तौ
तपः
श्लाघ्यैर्महात्मभिः
॥
20
▾
Meaning
Keep
संरक्ततरमत्यर्थं
मधुरं
तावगायताम्
।
प्रीतः
कश्चिन्मुनिस्ताभ्यां
सस्मितः
कलशं
ददौ
॥
21
▾
Meaning
Keep
प्रसन्नो
वल्कलं
कश्चिद्ददौ
ताभ्यां
महातपाः
।
अन्यः
कृष्णाजिनं
प्रादान्मौञ्जीमन्यो
महामुनिः
॥
22
▾
Meaning
Keep
कश्चित्कमण्डलुं
प्रादाद्यज्ञसूत्रमथापरः
।
ब्रुसीमन्यस्तदा
प्रादत्कौपीनमपरो
मुनिः
॥
23
▾
Meaning
Keep
ताभ्यां
ददौ
तदा
हृष्टः
कुठारमपरो
मुनिः
।
काषायमपरो
वस्त्रं
चीरमन्यो
ददौ
मुनिः
॥
24
▾
Meaning
Keep
जटाबन्धनमन्यस्तु
काष्ठरज्जुं
मुदान्वितः
।
यज्ञभाण्डमृषिः
कश्चित्
काष्ठभारं
तथापरः
॥
25
▾
Meaning
Keep
औदुम्बरीं
ब्रुसीमन्यो
जपमालामथापरः
।
आयुष्यमपरे
प्राहुर्मुदा
तत्र
महर्षयः
॥
26
▾
Meaning
Keep
ददुश्चैव
वरान्सर्वे
मुनयः
सत्यवादिनः
।
आश्चर्यमिदमाख्यानं
मुनिना
सम्प्रकीर्तितम्
॥
27
▾
Meaning
Keep
परं
कवीनामाधारं
समाप्तं
च
यथाक्रमम्
।
अभिगीतमिदं
गीतं
सर्वगीतेषु
कोविदौ
॥
28
▾
Meaning
Keep
आयुष्यं
पुष्टिजनकं
सर्वश्रुतिमनोहरम्
।
प्रशस्यमानौ
सर्वत्र
कदाचित्तत्र
गायनौ
॥
29
▾
Meaning
Keep
रथ्यासु
राजमार्गेषु
ददर्श
भरताग्रजः
।
स्ववेश्म
चानीय
ततो
भ्रातरौ
च
कुशीलवौ
॥
30
▾
Meaning
Keep
पूजयामास
पूजार्हौ
रामः
शत्रुनिबर्हणः
।
आसीनः
काञ्चने
दिव्ये
स
च
सिंहासने
प्रभुः
॥
31
▾
Meaning
Keep
उपोपविष्टः
सचिवैर्भ्रातृभिश्च
परन्तप
।
दृष्ट्वा
तु
रूपसम्पन्नौ
तावुभौ
नियतस्तदा
॥
32
▾
Meaning
Keep
उवाच
लक्ष्मणं
रामः
शत्रुघ्नं
भरतं
तथा
।
श्रूयतामिदमाख्यानमनयोर्देववर्चसोः
॥
33
▾
Meaning
Keep
विचित्रार्थपदं
सम्यग्गायनौ
समचोदयत्
।
तौ
चापि
मधुरं
व्यक्तं
स्वञ्चितायतनिःस्वनम्
॥
34
▾
Meaning
Keep
तन्त्रीलयवदत्यर्थं
विश्रुतार्थमगायताम्
।
ह्लादयत्सर्वगात्राणि
मनांसि
हृदयानि
च
।
श्रोत्राश्रयसुखं
गेयं
तद्बभौ
जनसंसदि
॥
35
▾
Meaning
Keep
इमौ
मुनी
पार्थिवलक्षणान्वितौ
कुशीलवौ
चैव
महातपस्विनौ
।
ममापि
तद्भूतिकरं
प्रचक्षते
महानुभावं
चरितं
निबोधत
॥
36
▾
Meaning
Keep
ततस्तु
तौ
रामवचः
प्रचोदिता-
-वगायतां
मार्गविधानसम्पदा
।
स
चापि
रामः
परिषद्गतः
शनै-
-र्बुभूषया
सक्तमना
बभूव
ह
॥
Previous
←
The Vision of the Epic
Next
The City of Ayodhyā
→