Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Resolve for the Horse Sacrifice
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
तस्य
त्वेवंप्रभावस्य
धर्मज्ञस्य
महात्मनः
।
सुतार्थं
तप्यमानस्य
नासीद्वंशकरः
सुतः
॥
2
▾
Meaning
Keep
चिन्तयानस्य
तस्येयं
बुद्धिरासीन्महात्मनः
।
सुतार्थी
वाजिमेधेन
किमर्थं
न
यजाम्यहम्
॥
3
▾
Meaning
Keep
स
निश्चितां
मतिं
कृत्वा
यष्टव्यमिति
बुद्धिमान्
।
मन्त्रिभिः
सह
धर्मात्मा
सर्वैरेव
कृतात्मभिः
॥
4
▾
Meaning
Keep
ततोऽब्रवीदिदं
तेजाः
सुमन्त्रं
मन्त्रिसत्तमम्
।
शीघ्रमानय
मे
सर्वान्गुरूंस्तान्सपुरोहितान्
॥
5
▾
Meaning
Keep
ततः
सुमन्त्रस्त्वरितं
गत्वा
त्वरितविक्रमः
।
समानयत्स
तान्सर्वान्गुरूंस्तान्वेदपारगान्
॥
6
▾
Meaning
Keep
सुयज्ञं
वामदेवं
च
जाबालिमथ
काश्यपम्
।
पुरोहितं
वसिष्ठं
च
ये
चान्ये
द्विजसत्तमाः
॥
7
▾
Meaning
Keep
तान्पूजयित्वा
धर्मात्मा
राजा
दशरथस्तदा
।
इदं
धर्मार्थसहितं
श्लक्ष्णं
वचनमब्रवीत्
॥
8
▾
Meaning
Keep
मम
लालप्यमानस्य
पुत्रार्थं
नास्ति
वै
सुखम्
।
तदर्थं
हयमेधेन
यक्ष्यामीति
मतिर्मम
॥
9
▾
Meaning
Keep
तदहं
यष्टुमिच्छामि
शास्त्रदृष्टेन
कर्मणा
।
कथं
प्राप्स्याम्यहं
कामं
बुद्धिरत्र
विचार्यताम्
॥
10
▾
Meaning
Keep
ततः
साध्विति
तद्वाक्यं
ब्राह्मणाः
प्रत्यपूजयन्
।
वसिष्ठप्रमुखाः
सर्वे
पार्थिवस्य
मुखेरितम्
॥
11
▾
Meaning
Keep
ऊचुश्च
परमप्रीताः
सर्वे
दशरथं
वचः
।
सम्भाराः
सम्भ्रियन्तां
ते
तुरगश्च
विमुच्यताम्
॥
12
▾
Meaning
Keep
सरय्वाश्चोत्तरे
तीरे
यज्ञभूमिर्विधीयताम्
।
सर्वथा
प्राप्स्यसे
पुत्रानभिप्रेतांश्च
पार्थिव
॥
13
▾
Meaning
Keep
यस्य
ते
धर्मिकी
बुद्धिरियं
पुत्रार्थमागता
।
ततः
प्रीतोऽभवद्राजा
श्रुत्वैतद्द्विजभाषितम्
॥
14
▾
Meaning
Keep
अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ।
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥
15
▾
Meaning
Keep
समर्थाधिष्ठितश्चाश्वः
सोपाध्यायो
विमुच्यताम्
।
सरय्वाश्चोत्तरे
तीरे
यज्ञभूमिर्विधीयताम्
॥
16
▾
Meaning
Keep
शान्तयश्चाभिवर्धन्तां
यथाकल्पं
यथाविधि
।
शक्यः
कर्तुमयं
यज्ञः
सर्वेणापि
महीक्षिता
॥
17
▾
Meaning
Keep
नापराधो
भवेत्कष्टो
यद्यस्मिन्
क्रतुसत्तमे
।
छिद्रं
हि
मृगयन्तेऽत्र
विद्वांसो
ब्रह्मराक्षसाः
॥
18
▾
Meaning
Keep
विधिहीनस्य
यज्ञस्य
सद्यः
कर्ता
विनश्यति
।
तद्यथा
विधिपूर्वं
मे
क्रतुरेष
समाप्यते
॥
19
▾
Meaning
Keep
तथा
विधानं
क्रियतां
समर्थाः
करणेष्विह
।
तथेति
चाब्रुवन्सर्वे
मन्त्रिणः
प्रत्यपूजयन्
॥
20
▾
Meaning
Keep
पार्थिवेन्द्रस्य
तद्वाक्यं
यथाज्ञप्तं
निशम्य
ते
।
तथा
द्विजास्ते
धर्मज्ञा
वर्धयन्तो
नृपोत्तमम्
॥
21
▾
Meaning
Keep
अनुज्ञातास्ततः
सर्वे
पुनर्जग्मुर्यथागतम्
।
विसर्जयित्वा
तान्विप्रान्सचिवानिदमब्रवीत्
॥
22
▾
Meaning
Keep
ऋत्विग्भिरुपसन्दिष्टो
यथावत्क्रतुराप्यताम्
।
इत्युक्त्वा
नृपशार्दूलः
सचिवान्समुपस्थितान्
॥
23
▾
Meaning
Keep
विसर्जयित्वा
स्वं
वेश्म
प्रविवेश
महाद्युतिः
।
ततः
स
गत्वा
ताः
पत्नीर्नरेन्द्रो
हृदयप्रियाः
॥
24
▾
Meaning
Keep
उवाच
दीक्षां
विशत
यक्ष्येऽहं
सुतकारणात्
।
तासां
तेनातिकान्तेन
वचनेन
सुवर्चसाम्
।
मुखपद्मान्यशोभन्त
पद्मानीव
हिमात्यये
॥
Previous
←
The Ministers of Daśaratha
Next
The Prophecy of Ṛśyaśṛṅga
→