Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Prophecy of Ṛśyaśṛṅga
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
एतच्छ्रुत्वा
रहः
सूतो
राजानमिदमब्रवीत्
।
श्रूयतां
तत्
पुरा
वृत्तं
पुराणे
च
मया
श्रुतम्
।
ऋत्विग्भिरुपदिष्टोऽयं
पुरावृत्तो
मया
श्रुतः
॥
2
▾
Meaning
Keep
सनत्कुमारो
भगवान्पूर्वं
कथितवान्कथाम्
।
ऋषीणां
सन्निधौ
राजंस्तव
पुत्रागमं
प्रति
॥
3
▾
Meaning
Keep
काश्यपस्य
तु
पुत्रोऽस्ति
विभण्डक
इति
श्रुतः
।
ऋश्यशृङ्ग
इति
ख्यातस्तस्य
पुत्रो
भविष्यति
॥
4
▾
Meaning
Keep
स
वने
नित्यसंवृद्धो
मुनिर्वनचरः
सदा
।
नान्यं
जानाति
विप्रेन्द्रो
नित्यं
पित्रानुवर्तनात्
॥
5
▾
Meaning
Keep
द्वैविध्यं
ब्रह्मचर्यस्य
भविष्यति
महात्मनः
।
लोकेषु
प्रथितं
राजन्
विप्रैश्च
कथितं
सदा
॥
6
▾
Meaning
Keep
तस्यैवं
वर्तमानस्य
कालः
समभिवर्तते
।
अग्निं
शुश्रूषमाणस्य
पितरं
च
यशस्विनम्
॥
7
▾
Meaning
Keep
एतस्मिन्नेव
काले
तु
रोमपादः
प्रतापवान्
।
अङ्गेषु
प्रथितो
राजा
भविष्यति
महाबलः
॥
8
▾
Meaning
Keep
तस्य
व्यतिक्रमाद्राज्ञो
भविष्यति
सुदारुणा
।
अनावृष्टिः
सुघोरा
वै
सर्वभूतभयावहा
॥
9
▾
Meaning
Keep
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।
ब्राह्मणाञ्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥
10
▾
Meaning
Keep
भवन्तः
श्रुतधर्माणो
लोकचारित्रवेदिनः
।
समादिशन्तु
नियमं
प्रायश्चित्तं
यथा
भवेत्
॥
11
▾
Meaning
Keep
इत्युक्तास्ते
ततो
राज्ञा
सर्वे
ब्राह्मणसत्तमाः
।
वक्ष्यन्ति
ते
महीपालं
ब्राह्मणा
वेदपारगाः
।
विभण्डकसुतं
राजन्सर्वोपायैरिहानय
॥
12
▾
Meaning
Keep
आनीय
च
महीपाल
ऋश्यशृङ्गं
सुसत्कृतम्
।
प्रयच्छ
कन्यां
शान्तां
वै
विधिना
सुसमाहितः
॥
13
▾
Meaning
Keep
तेषां
तु
वचनं
श्रुत्वा
राजा
चिन्तां
प्रपत्स्यते
।
केनोपायेन
वै
शक्यमिहानेतुं
स
वीर्यवान्
॥
14
▾
Meaning
Keep
ततो
राजा
विनिश्चित्य
सह
मन्त्रिभिरात्मवान्
।
पुरोहितममात्यांश्च
ततः
प्रेष्यति
सत्कृतान्
॥
15
▾
Meaning
Keep
ते
तु
राज्ञो
वचः
श्रुत्वा
व्यथिता
विनताननाः
।
न
गच्छेम
ऋषेर्भीता
अनुनेष्यन्ति
तं
नृपम्
॥
16
▾
Meaning
Keep
वक्ष्यन्ति
चिन्तयित्वा
ते
तस्योपायांश्च
तत्क्षमान्
।
आनेष्यामो
वयं
विप्रं
न
च
दोषो
भविष्यति
॥
17
▾
Meaning
Keep
एवमङ्गाधिपेनैव
गणिकाभिरृषेः
सुतः
।
आनीतोऽवर्षयद्देवः
शान्ता
चास्मै
प्रदीयते
॥
18
▾
Meaning
Keep
ऋश्यशृङ्गस्तु
जामाता
पुत्रांस्तव
विधास्यति
।
सनत्कुमारकथितमेतावद्व्याहृतं
मया
॥
19
▾
Meaning
Keep
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।
यथर्ष्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥
Previous
←
The Resolve for the Horse Sacrifice
Next
The Seduction of Ṛśyaśṛṅga
→