Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Bringing of Ṛśyaśṛṅga
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
भूय
एव
हि
राजेन्द्र
शृणु
मे
वचनं
हितम्
।
यथा
स
देवप्रवरः
कथयामास
बुद्धिमान्
॥
2
▾
Meaning
Keep
इक्ष्वाकूणां
कुले
जातो
भविष्यति
सुधार्मिकः
।
राजा
दशरथो
राजा
श्रीमान्सत्यप्रतिश्रवः
॥
3
▾
Meaning
Keep
अङ्गराजेन
सख्यं
च
तस्य
राज्ञो
भविष्यति
।
कन्या
चास्य
महाभागा
शान्ता
नाम
भविष्यति
।
पुत्रस्तु
सोऽङ्गराजस्य
रोमपाद
इति
श्रुतः
॥
4
▾
Meaning
Keep
तं
स
राजा
दशरथो
गमिष्यति
महायशाः
।
अनपत्योऽस्मि
धर्मात्मन्
शान्ता
भर्ता
मम
क्रतुम्
॥
5
▾
Meaning
Keep
आहरेत
त्वयाज्ञप्तः
सन्तानार्थं
कुलस्य
च
।
श्रुत्वा
राज्ञोऽथ
तद्वाक्यं
मनसापि
विमृश्य
च
॥
6
▾
Meaning
Keep
प्रदास्यते
पुत्रवन्तं
शान्ता
भर्तारमात्मवान्
।
प्रतिगृह्यं
च
तं
विप्रं
स
राजा
विगत
ज्वरः
॥
7
▾
Meaning
Keep
आहरिष्यति
तं
यज्ञं
प्रहृष्टेनान्तरात्मना
।
तं
च
राजा
दशरथो
यष्टुकामः
कृताञ्जलिः
॥
8
▾
Meaning
Keep
ऋश्यशृङ्गं
द्विजश्रेष्ठं
वरयिष्यति
धर्मवित्
।
यज्ञार्थं
प्रसवार्थं
च
स्वर्गार्थं
च
नरेश्वरः
॥
9
▾
Meaning
Keep
लभते
च
स
तं
कामं
द्विजमुख्याद्विशां
पतिः
।
पुत्राश्चास्य
भविष्यन्ति
चत्वारोऽमितविक्रमाः
॥
10
▾
Meaning
Keep
वंशप्रतिष्ठानकराः
सर्वलोकेषु
विश्रुताः
।
एवं
स
देवप्रवरः
पूर्वं
कथितवान्कथाम्
॥
11
▾
Meaning
Keep
सनत्कुमारो
भगवान्
पुरा
देवयुगे
प्रभुः
।
स
त्वं
पुरुषशार्दूल
तमानय
सुसत्कृतम्
॥
12
▾
Meaning
Keep
स्वयमेव
महाराज
गत्वा
सबलवाहनः
।
सुमन्त्रस्य
वचः
श्रुत्वा
हृष्टो
दशरथोऽभवत्
।
अनुमान्य
वसिष्ठं
च
सूतवाक्यं
निशाम्य
च
॥
13
▾
Meaning
Keep
वसिष्ठेनाभ्यनुज्ञातो
राजा
सम्पूर्णमानसः
।
सान्तःपुरः
सहामात्यः
प्रययौ
यत्र
स
द्विजः
॥
14
▾
Meaning
Keep
वनानि
सरितश्चैव
व्यतिक्रम्य
शनैः
शनैः
।
अभिचक्राम
तं
देशं
यत्र
वै
मुनिपुङ्गवः
॥
15
▾
Meaning
Keep
आसाद्य
तं
द्विजश्रेष्ठं
रोमपादसमीपगम्
।
ऋषिपुत्रं
ददर्शादौ
दीप्यमानमिवानलम्
॥
16
▾
Meaning
Keep
ततो
राजा
यथान्यायं
पूजां
चक्रे
विशेषतः
।
सखित्वात्तस्य
वै
राज्ञः
प्रहृष्टेनान्तरात्मना
॥
17
▾
Meaning
Keep
रोमपादेन
चाख्यातमृषिपुत्राय
धीमते
।
सख्यं
सम्बन्धकं
चैव
तदा
तं
प्रत्यपूजयत्
॥
18
▾
Meaning
Keep
एवं
सुसत्कृतस्तेन
सहोषित्वा
नरर्षभः
।
सप्ताष्ट
दिवसान्राजा
राजानमिदमब्रवीत्
॥
19
▾
Meaning
Keep
शान्ता
तव
सुता
राजन्सह
भर्त्रा
विशांपते
।
मदीयं
नगरं
यातु
कार्यं
हि
महदुद्यतम्
॥
20
▾
Meaning
Keep
तथेति
राजा
संश्रुत्य
गमनं
तस्य
धीमतः
।
उवाच
वचनं
विप्रं
गच्छ
त्वं
सह
भार्यया
॥
21
▾
Meaning
Keep
ऋषिपुत्रः
प्रतिश्रुत्य
तथेत्याह
नृपं
तदा
।
स
नृपेणाभ्यनुज्ञातः
प्रययौ
सह
भार्यया
॥
22
▾
Meaning
Keep
तावान्योन्याञ्जलिं
कृत्वा
स्नेहात्संश्लिष्य
चोरसा
।
ननन्दतुर्दशरथो
रोमपादश्च
वीर्यवान्
॥
23
▾
Meaning
Keep
ततः
सुहृदमापृच्छ्य
प्रस्थितो
रघुनन्दनः
।
पौरेभ्यः
प्रेषयामास
दूतान्वै
शीघ्रगामिनः
॥
24
▾
Meaning
Keep
क्रियतां
नगरं
सर्वं
क्षिप्रमेव
स्वलङ्कृतम्
।
धूपितं
सिक्त
सम्मृष्टं
पताकाभिरलङ्कृतम्
॥
25
▾
Meaning
Keep
ततः
प्रहृष्टाः
पौरास्ते
श्रुत्वा
राजानमागतम्
।
तथा
प्रचक्रुस्तत्सर्वं
राज्ञा
यत्प्रेषितं
तदा
॥
26
▾
Meaning
Keep
ततः
स्वलङ्कृतं
राजा
नगरं
प्रविवेश
ह
।
शङ्खदुन्दुभिनिर्घोषैः
पुरस्कृत्य
द्विजर्षभम्
॥
27
▾
Meaning
Keep
ततः
प्रमुदिताः
सर्वे
दृष्ट्वा
तं
नागरा
द्विजम्
।
प्रवेश्यमानं
सत्कृत्य
नरेन्द्रेणेन्द्रकर्मणा
॥
28
▾
Meaning
Keep
यथा
दिवि
सुरेन्द्रेण
सहस्राक्षेण
काश्यपम्
।
अन्तःपुरं
प्रवेश्यैनं
पूजां
कृत्वा
च
शास्त्रतः
।
कृतकृत्यं
तदात्मानं
मेने
तस्योपवाहनात्
॥
29
▾
Meaning
Keep
अन्तःपुराणि
सर्वाणि
शान्तां
दृष्ट्वा
तथागताम्
।
सह
भर्त्रा
विशालाक्षीं
प्रीत्यानन्दमुपागमन्
॥
30
▾
Meaning
Keep
पूज्यमाना
च
ताभिः
सा
राज्ञा
चैव
विशेषतः
।
उवास
तत्र
सुखिता
कञ्चित्कालं
सहर्त्विजा
॥
Previous
←
The Seduction of Ṛśyaśṛṅga
Next
The King's Resolve
→