Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The King's Resolve
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
ततः
काले
बहुतिथे
कस्मिंश्चित्सुमनोहरे
।
वसन्ते
समनुप्राप्ते
राज्ञो
यष्टुं
मनोऽभवत्
॥
2
▾
Meaning
Keep
ततः
प्रसाद्य
शिरसा
तं
विप्रं
देववर्णिनम्
।
यज्ञाय
वरयामास
सन्तानार्थं
कुलस्य
च
॥
3
▾
Meaning
Keep
तथेति
च
राजानमुवाच
च
सुसत्कृतः
।
सम्भाराः
सम्भ्रियन्तां
ते
तुरगश्च
विमुच्यताम्
॥
4
▾
Meaning
Keep
सरय्वाश्चोत्तरे
तीरे
यज्ञभूमिर्विधीयताम्
।
ततो
राजाऽब्रवीद्वाक्यं
सुमन्त्रं
मन्त्रिसत्तमम्
।
सुमन्त्रावाहय
क्षिप्रमृत्विजो
ब्रह्मवादिनः
॥
5
▾
Meaning
Keep
सुयज्ञं
वामदेवं
च
जाबालिमथ
काश्यपम्
।
पुरोहितं
वसिष्ठं
च
ये
चान्ये
द्विजसत्तमाः
॥
6
▾
Meaning
Keep
ततः
सुमन्त्रस्त्वरितं
गत्वा
त्वरितविक्रमः
।
समानयत्स
तान्विप्रान्समस्तान्वेदपारगान्
॥
7
▾
Meaning
Keep
तान्पूजयित्वा
धर्मात्मा
राजा
दशरथस्तदा
।
धर्मार्थसहितं
युक्तं
श्लक्ष्णं
वचनमब्रवीत्
॥
8
▾
Meaning
Keep
मम
लालप्यमानस्य
पुत्रार्थं
नास्ति
वै
सुखम्
।
तदर्थं
हयमेधेन
यक्ष्यामीति
मतिर्मम
॥
9
▾
Meaning
Keep
तदहं
यष्टुमिच्छामि
शास्त्रदृष्टेन
कर्मणा
।
ऋषिपुत्रप्रभावेण
कामान्प्राप्स्यामि
चाप्यहम्
॥
10
▾
Meaning
Keep
ततः
साध्विति
तद्वाक्यं
ब्राह्मणाः
प्रत्यपूजयन्
।
वसिष्ठप्रमुखाः
सर्वे
पार्थिवस्य
मुखाच्च्युतम्
॥
11
▾
Meaning
Keep
ऋश्यशृङ्गपुरोगाश्च
प्रत्यूचुर्नृपतिं
तदा
।
सम्भाराः
सम्भ्रियन्तां
ते
तुरगश्च
विमुच्यताम्
॥
12
▾
Meaning
Keep
सर्वथा
प्राप्स्यसे
पुत्रांश्चतुरोऽमितविक्रमान्
।
यस्य
ते
धर्मिकी
बुद्धिरियं
पुत्रार्थमागता
॥
13
▾
Meaning
Keep
ततः प्रीतोऽभवद्राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥
14
▾
Meaning
Keep
सम्भाराः
सम्भ्रियन्तां
मे
गुरूणां
वचनादिह
।
समर्थाधिष्ठितश्चाश्वः
सोपाध्यायो
विमुच्यताम्
॥
15
▾
Meaning
Keep
सरय्वाश्चोत्तरे
तीरे
यज्ञभूमिर्विधीयताम्
।
शान्तयश्चापि
वर्तन्तां
यथाकल्पं
यथाविधि
॥
16
▾
Meaning
Keep
शक्यः
कर्तुमयं
यज्ञः
सर्वेणापि
महीक्षिता
।
नापराधो
भवेत्कष्टो
यद्यस्मिन्
क्रतुसत्तमे
॥
17
▾
Meaning
Keep
छिद्रं
हि
मृगयन्तेऽत्र
विद्वांसो
ब्रह्मराक्षसाः
।
विहतस्य
हि
यज्ञस्य
सद्यः
कर्ता
विनश्यति
॥
18
▾
Meaning
Keep
तद्यथा
विधिपूर्वं
मे
क्रतुरेष
समाप्यते
।
तथा
विधानं
क्रियतां
समर्थाः
करणेष्विह
॥
19
▾
Meaning
Keep
तथेति
च
ततः
सर्वे
मन्त्रिणः
प्रत्यपूजयन्
।
पार्थिवेन्द्रस्य
तद्वाक्यं
यथाज्ञप्तमकुर्वत
॥
20
▾
Meaning
Keep
ततो
द्विजास्ते
धर्मज्ञमस्तुवन्पार्थिवर्षभम्
।
अनुज्ञातास्ततः
सर्वे
पुनर्जग्मुर्यथागतम्
॥
21
▾
Meaning
Keep
गतेष्वथ
द्विजाग्र्येषु
मन्त्रिणस्तान्नराधिपः
।
विसर्जयित्वा
स्वं
वेश्म
प्रविवेश
महाद्युतिः
॥
Previous
←
The Bringing of Ṛśyaśṛṅga
Next
Preparations for the Sacrifice
→