Leave

Vālmīki Rāmāyaṇa · Arrival at the Sacrificial Grounds of Janaka

Tap a verse for its meaning

  1. 1
    ततः प्रागुत्तरां गत्वा रामः सह ।विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥
  2. 2
    रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥
  3. 3
    बहूनीह सहस्राणि नानादेशनिवासिनाम् ।ब्राह्मणानां महाभाग ॥
  4. 4
    ऋषिवाटाश्च दृश्यन्ते ।देशो विधीयतां ब्रह्मन्यत्र वत्स्यामहे वयम् ॥
  5. 5
    रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।निवेशमकरोद्देशे सलिलायुते ॥
  6. 6
    विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् ॥
  7. 7
    प्रत्युज्जगाम सहसा समन्वितः ।ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ॥
  8. 8
    विश्वामित्राय धर्मेण ददु ।प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥
  9. 9
    पप्रच्छ कुशलं राज्ञो यज्ञस्य च ।स तांश्चापि मुनीन्पृष्ट्वा सोपाध्यायपुरोधसः ॥
  10. 10
    यथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवत् ।अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥
  11. 11
    आसने भगवानास्तां सहैभि ।जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥
  12. 12
    ऋत्विजश्चैव राजा च सह ।आसनेषु यथान्यायमुपविष्टान्समन्ततः ॥
  13. 13
    दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ।अद्य यज्ञसमृद्धिर्मे सफला कृता ॥
  14. 14
    अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ।धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ॥
  15. 15
    यज्ञोपसदनं ब्रह्मन्प्राप्तोऽसि मुनिभिः सह ।द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः ॥
  16. 16
    ततो भागार्थिनो देवान्द्रष्टुमर्हसि ।इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥
  17. 17
    पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ।इमौ भद्रं ते ॥
  18. 18
    वीरौ शार्दूलवृषभोपमौ । खड्गतूणीधनुर्धरौ ॥
  19. 19
    अश्विनाविव रूपेण ।यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ॥
  20. 20
    कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने । वरायुधधरावुभौ ॥
  21. 21
    बद्ध खड्गवन्तौ महाद्युती ।काकपक्षधरो वीरौ कुमाराविव पावकी ॥
  22. 22
    रूपैदार्यर्गुणैः पुंसां ।प्रकाश्य कुलमस्माकं मामुद्धर्तुमिहागतौ ॥
  23. 23
    वरायुधधरौ वीरौ कस्य पुत्रौ महामुने ।भूषयन्ताविमं देशं म्बरम् ।परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥
  24. 24
    कस्य पुत्रौ मुनिश्रेष्ठ ।तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ॥
  25. 25
    न्यवेदयन्महात्मानौ तौ ।सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥
  26. 26
    तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ।अहल्यादर्शनं चैव गौतमेन समागमम् ।महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥
  27. 27
    एतत्सर्वं महातेजा जनकाय महात्मने ।निवेद्य थ विश्वामित्रो महामुनिः ॥