Leave

Vālmīki Rāmāyaṇa · The Breaking of the Bow

Tap a verse for its meaning

  1. 1
    जनकस्य वचः श्रुत्वा विश्वामित्रो ।धनुर्दर्शय रामाय इति होवाच ॥
  2. 2
    ततः स राजा जनकः दिदेश ह ।धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥
  3. 3
    जनकेन समादिष्टाः सचिवाः प्राविशन्पुरीम् ।तद्धनुः कृत्वा निर्जग्मुः ॥
  4. 4
    नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम् ।मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन ॥
  5. 5
    तामादाय तु मञ्जूषामायसीं यत्र तद्धनुः ।सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः ॥
  6. 6
    इदं धनुर्वरं राजन्पूजितं सर्वराजभिः । राजेन्द्र दर्शनीयं यदिच्छसि ॥
  7. 7
    तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।विश्वामित्रं महात्मानं तौ चोभौ ॥
  8. 8
    इदं धनुर्वरं जनकैरभिपूजितम् ।राजभिश्च महावीर्यैरशक्तैः पूरितुं पुरा ॥
  9. 9
    नैत सर्वे नासुरा न च ।गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥
  10. 10
    क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे । समायोगे वेपने तोलनेऽपि वा ॥
  11. 11
    तदेतद्धनुषां श्रेष्ठमानीतं ।दर्शयैतन्महाभाग अनयो ॥
  12. 12
    विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।वत्स राम धनुः पश्य इति ॥
  13. 13
    ब्रह्मर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः । तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥
  14. 14
    इदं धनुर्वरं ब्रह्मन् संस्पृशामीह ।यत्नवांश्च भविष्यामि तोलने पूरणेपि वा ॥
  15. 15
    बाढमित्येव तं राजा मुनिश्च समभाषत । स धनुर्मध्ये जग्राह वचनान्मुनेः ॥
  16. 16
    पश्यतां नृसहस्राणां बहूनां । धर्मात्मा सलीलमिव तद्धनुः ॥
  17. 17
    आरोपयित्वा धर्मात्मा पूरयामास ।तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥
  18. 18
    तस्य शब्दो महानासी ।भूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः ॥
  19. 19
    निपेतुश्च नराः सर्वे तेन शब्देन ।वर्जयित्वा मुनिवरं राजानं तौ च ॥
  20. 20
    प्रत्याश्वस्ते जने तस्मिन्राजा ।उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥
  21. 21
    भगवन्दृष्टवीर्यो मे रामो दशरथात्मजः ।अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥
  22. 22
    जनकानां कुले कीर्तिमाहरिष्यति मे सुता ।सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥
  23. 23
    मम सत्या प्रतिज्ञा च कौशिक ।सीता प्राणैर्बहुमता देया रामाय मे सुता ॥
  24. 24
    भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु ।मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥
  25. 25
    राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ।प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः ॥
  26. 26
    मुनिगुप्तौ च कथयन्तु नृपाय वै ।प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः ॥
  27. 27
    कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः ।अयोध्यां प्रेषयामास धर्मात्मा ॥