Leave

Vālmīki Rāmāyaṇa · The Fourfold Wedding

Tap a verse for its meaning

  1. 1
    यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।तस्मिंस्तु दिवसे शूरो मुपेयिवान् ॥
  2. 2
    पुत्रः केकयराजस्य साक्षा ।दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥
  3. 3
    केकयाधिपती राजा शलमब्रवीत् ।येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥
  4. 4
    स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपतिः ।तदर्थमुपयातोऽहमयोध्यां ॥
  5. 5
    श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।मिथिलामुपयातांस्तु त्वया सह ॥
  6. 6
    त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुःसुतम् ।अथ राजा दशरथः प्रियातिथिमुपस्थितम् ॥
  7. 7
    दृष्ट्वा पूजनार्हमपूजयत् ।ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ॥
  8. 8
    प्रभाते पुनरुत्थाय कृत्वा कर्माणि ।ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥
  9. 9
    युक्ते मुहूर्ते सर्वाभरणभूषितैः ।भ्रातृभिः सहितो रामः ॥
  10. 10
    वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ।वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥
  11. 11
    राजा दशरथो राजन्कृतकौतुकमङ्गलैः ।पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते ॥
  12. 12
    दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ।स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥
  13. 13
    इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।प्रत्युवाच महातेजा वाक्यं ॥
  14. 14
    कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्ष्यते । को विचारोऽस्ति यथा राज्यमिदं तव ॥
  15. 15
    कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ।मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेर्यथार्चिषः ॥
  16. 16
    सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ।अविघ्नं क्रियतां राजन्किमर्थमवलम्बते ॥
  17. 17
    तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।प्रवेशयामास सुतान्सर्वानृषिगणानपि ॥
  18. 18
    ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ।कारयस्व ऋषे सर्वामृषिभिः सह ॥
  19. 19
    रामस्य क्रियां वैवाहिकीं प्रभो ।तथेत्युक्त्वा तु जनकं वसिष्ठो भगवानृषिः ॥
  20. 20
    विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् । तु विधिवद्वेदिं कृत्वा ॥
  21. 21
    अलंचकार तां वेदिं गन्धपुष्पैः समन्ततः ।सुवर्णपालिकाभिश्च छिद्रकुम्भैश्च साङ्कुरैः ॥
  22. 22
    शरावैश्च धूपपात्रैः सधूपकैः ।शङ्खपात्रैः स्रुग्भिः पात्रैरर्घ्याभिपूरितैः ॥
  23. 23
    लाजपूर्णैश्च पात्रौघैरक्षतैरपि संस्कृतैः ।दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् ॥
  24. 24
    वेद्यां तु विधिमन्त्रपुरस्कृतम् । महातेजा वसिष्ठो भगवानृषिः ॥
  25. 25
    ततः सीतां समानीय ।समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ॥
  26. 26
    अब्रवीज्जनको राजा ।इयं सीता मम सुता तव ॥
  27. 27
    प्रतीच्छ चैनां भद्रं ते पाणिना ।पतिव्रता महभागा सदा ॥
  28. 28
    इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ।साधु साध्विति देवानामृषीणां वदतां तदा ॥
  29. 29
    पुष्पवर्षो महानभूत् ।एवं दत्त्वा तदा सीतां मन्त्रोदकपुरस्कृताम् ॥
  30. 30
    अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ।लक्ष्मणागच्छ भद्रं ते ऊर्मिलां च ममात्मजाम् ॥
  31. 31
    प्रतीच्छ पाणिं गृह्णीष्व मा भू ।तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ॥
  32. 32
    पाणिं गृह्णीष्व पाणिना रघुनन्दन ।शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ॥
  33. 33
    महाबाहो पाणिं गृह्णीष्व पाणिना ।सर्वे भवन्तः सौम्याश्च सर्वे ॥
  34. 34
    सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः ।जनकस्य वचः श्रुत्वा ॥
  35. 35
    चत्वारस्ते चतसॄणां वसिष्ठस्य मते स्थिताः ।अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ॥
  36. 36
    ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।यथोक्तेन तदा चक्रुर्विवाहं ॥
  37. 37
    काकुत्स्थैश्च गृहीतेषु ललितेषु च पाणिषु ।पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ॥
  38. 38
    दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ।ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम् ॥
  39. 39
    विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ।ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ॥
  40. 40
    त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ।अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनाः ।राजाप्यनुययौ पश्यन्सर्षिसङ्घः सबान्धवः ॥